पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
434
[बालकाण्डः
मेनकया विश्वामित्रतपोभङ्गः

 अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ।
 सव्रीड इव संवृत्तः चिन्ताशोकपरायणः ॥ ९ ॥
 बुद्धिर्मुनेः समुत्पन्ना[१]सामर्षा रघुनन्दन !
 [२]सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत् ॥ १० ॥

 सामर्षेति । अस्मत्तपः पुनः[३]देवता विघ्नन्तीत्यमर्षसहिता ॥

 [४]अहोरात्रापदेशेन गताः संवत्सरा दश ।
 काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः ॥ ११ ॥

 अहोरात्रापदेशेन–एकाहोरात्रतुल्यतया ॥ ११ ॥३॥

 विनिश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ।
 भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ॥ १२ ॥
 मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः ।
 उत्तरं पर्वतं राम ! विश्वामित्रो जगाम ह ॥ १३ ॥

 मेनकां मधुरैर्वाक्यैर्विसृज्येति । मया कामतप्तेन प्रार्थितत्वात् योषितस्ते न कश्चनापचारः । अतस्त्वं यथासुखं गच्छेत्येवमादिरूपैर्वचनैरित्यर्थः ॥ १३ ॥

 स कृत्वा [५]नैष्ठिकीं बुद्धिं, जेतुकामो महायशाः ।
 कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् ॥ १४ ॥


  1. सामर्षा-देवेषु ; विघ्नस्य तत्कृतत्वज्ञानात्-ति.
  2. सत्यं सुराणां-ङ.
  3. देवा-ग.
  4. अहोरात्रव्याजेन दश संवत्सरा गता इति वाऽर्थः । पश्यत एव एकैकदिनशः दश संवत्सरा गता इति तात्पर्यम् । प्रत्युपस्थित इत्यनन्तरं 'इति' इत्यध्याहार्यं; इति बुद्धिस्समुत्पन्नेति पूर्वेणान्वयः ।
  5. नैष्ठिकीं-कामस्याप्यकरणं सङ्कल्प्य अत्युत्कृष्टब्रह्मचर्यविषयाम्-ति. जेतुकामः-काममिति शेषः ।