पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
436
[बालकाण्डः
मेनकया विश्वामित्रतपोभङ्गः

 [१]ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ।
 [२]यदि मे [३]भगवान्नाह ततोऽहं विजितेन्द्रियः ॥ २० ॥

 यदि शब्दो हेतौ । अतुलं-सर्वोत्तमं । ब्रह्मर्षिशब्दं-ब्रह्मसमा त्रिपदा ब्रह्मविद्या, तत्सिद्धः ऋषिः ब्रह्मर्षिः, तादृशं ब्रह्मर्षिशब्दं मदभीष्टं मां प्रति मे स्वार्जितैः शुभैः कर्मभिः सिद्धं यस्मात् नाह–नानुगृह्णीषे,ततः-तस्मात् अहं ब्रह्मर्षिशब्दसिद्धये विजितेन्द्रियः अतः परमत्यन्त भविष्यामीति शेषः ॥ २० ॥

 तमुवाच ततो ब्रह्मा[४] न तावत् त्वं जितेन्द्रियः ।
 [५]जयस्व मुनिशार्दूल ! इत्युक्त्वा त्रिदिवं गतः ॥ २१ ॥

 तथाऽनुतिष्ठेति भगवाननुगृह्णाति–तमित्यादि । ततः तस्य विश्वामित्रस्य 'सर्वथा विजितेन्द्रियो भविष्यामि' इत्युक्त्यनन्तरं विजितेन्द्रियत्वसिद्धिकालमनुगृह्णाति-न तावदिति । यावदहं त्वां ब्रह्मर्षिर्न ब्रवीमि, तावत् त्वं न विजितेन्द्रियः-विजितेन्द्रियत्वं ब्रह्मर्षिशब्दार्हं तव नास्ति, अतस्त्वं जयस्वेन्द्रियाणि इत्युक्त्वा परं त्रिदिवं—बह्मलोकं गतः इत्यर्थः ॥ २१ ॥

 [६]विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ।
 ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन् ॥ २२ ॥


  1. महर्षिशब्द-ङ. ज. च.
  2. यदि महर्षित्वं भवता दत्तं, ततोऽहं विजितेन्द्रियश्चास्मीत्यर्थः- गो. ब्रह्मर्षि शब्दं मदभीष्टं स्वार्जितैः शुभैः कर्मभिः प्राप्यं यदि-यतः भगवान्नाह-न वदति, ततो मन्येऽहं विजितेन्द्रियः; अत्र काकुः, न विजितेन्द्रिय इत्यर्थः-ति. महर्षिशब्दं मे-मह्यं यदि भगवानाह, ततः-तस्माद्धेतोः अहं विजितेन्द्रियोऽस्मीत्यर्थः । तेन तस्येन्द्रियजयजनितो गर्वो ध्वनितः- शि.
  3. भगवानाह-ङ.च.
  4. विकारहेतुसन्निधानेऽपि यावन्न विकरोपि तावन्तं कालं त्वं न जितेन्द्रिय इत्यर्थः-गो.
  5. यतस्व-ङ.
  6. संप्रस्थितेषु-ङ.