पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२ सर्गः]
431
ते जपन् स शुनश्शेफो दीर्घमायुरवाप्तवान्

 स बद्धो वाग्भिरग्रयाभिरभितुष्टाव वै सुरौ ।
 इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ॥ २५ ॥

 इन्द्रानुजो विष्णुर्यूपदेवः । इन्द्रः पशुभोक्ता ॥ २५ ॥

 ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः ।
 दीर्घमायुस्तदा प्रादात् शुनश्शेफाय राघव ! ॥ २६ ॥

 रहस्यस्तुतिः वैश्वामित्री ॥ २६ ॥

 स च राजा नरश्रेष्ठ ! [१]यज्ञस्य च समाप्तवान् ।
 फलं बहुगुणं राम ! सहस्राक्षप्रसादजम् ॥ २७ ॥

 सम्यक् आप्तवान्-समाप्तवान् । 'हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजाऽपुत्र आस' इत्यादि [२]बह्वृचब्राह्मणे, हरिश्चन्द्रनरमेधे शुनःशेफस्याजीगर्तसुतस्य पशुत्वं, 'कस्य नूनं कतमस्य' इत्यादिना मन्त्रेण प्रजापत्याद्यनेकदेवतास्तुत्यादिकं च प्रतिप्राद्यते । कथमिदमुच्यते-अम्बरीषयागे ऋचीकपुत्रः शुनश्शेफ इन्द्राविष्णू स्तुत्वा मुक्त इति ? सत्यम्-अम्बरीष एवैक्ष्वाकः । स एव हरिरिव चन्द्र इव च इति हरिश्चन्द्रः । ऋचीकः, स एवाजीर्गतः । तत्र प्रजापतिस्तुतिरिति यदुक्तं सैवेहोच्यमानविष्णुस्तुतिः । विश्वामित्रसम्बन्धः तेनैतत्पुत्रशापादिः श्रुतावप्यविशिष्टः[३] ॥ २७ ॥


  1. यज्ञस्य फलं सम्यक् आप्तवान् इत्यन्वयः ।
  2. एतरेयब्राह्मणे त्रयस्त्रिंशाध्याये इयमाख्यायिका पठ्यते.
  3. गोविन्दाराजैरप्येवमेव विरोधः परिहरणीय इत्युक्तम् । तिलके तु, उपाख्यानद्वयं भिन्नमेव । रामायणगतशुनःशेफोपाख्यानस्य मूलभूता श्रुतिश्चान्वेष्येति बहव इत्युक्त्वा, कतकव्याख्याप्यनूदिता ॥