पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
432
[बालकाण्डः
मेनकया विश्वामित्रतपोभङ्गः

 विश्वामित्रोऽपि धर्मात्मा भूयस्तेषे महातपाः ।
 पुष्करेषु नरश्रेष्ठ ! दशवर्षशतानि च ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्विषष्टितमः सर्गः

 जरा (२८) मानः सर्गः ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्विषष्टितमः सर्गः


अथ त्रिषष्टितमः सर्गः

[मेनकया विश्वामित्रतपोभङ्गः]

 पूर्णे वर्षसहस्रे तु[१]व्रतस्नातं महामुनिम् ।
 अभ्यागच्छन् सुराः सर्वे तपःफल[२]चिकीर्षवः ॥ १ ॥

 अथ द्वितीयव्यूहदिशि पश्चिमायां काममोहेन तपोनाशनप्रति-पादनम्-पूर्ण इत्यादि । अम्बायास्सहस्ररश्मित्वाद्वर्षसहस्रप्रमाणेनैव विश्वामित्रस्याम्बापुरश्चरणोपक्रमसमाप्तिः सर्वदिक्षु । अत एव सहस्रावृत्तिरम्बायाश्श्रोत्रियब्राह्मणानामस्माकं । व्रतस्नातमिति । समाप्तपुरश्चरणमिति यावत् ॥ १ ॥

 अब्रवीत् सुमहातेजा ब्रह्मा[३]सुरुचिरं वचः ।
 ऋषिस्त्वमसि, भद्रं ते, स्वार्जितैः कर्मभिः शुभैः ॥ २ ॥

 सुमहातेजा ब्रह्मेति । ब्रह्मविद्याधिदैवत्वतः तन्यैव तत्फलदातृत्वात् तदर्थं सुरुचिरं वचः भगवान् अब्रवीत । ऋषिस्त्वमसीति । एतेन राजशब्दानुपादानेन क्षत्रत्वजातिविश्लेषः कियान्वाऽभूदिति भगवताऽनुगृहीतं वेदितव्यम् ॥ २॥


  1. विश्वामित्रं-ङ.
  2. चिकीर्षया-ङ.
  3. सानुनयं-ङ.