पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
430
[बालकाण्डः
शुनश्शेफोपाख्यानम्

 पवित्रपाशैः-दर्भरशनाभिः आसक्तः-बद्धः वैष्णवं-विष्णु-देवताकं यूपं 'वैष्णवो वै देवतया यूपः' इति श्रुतेस्तथात्वम् वाग्भिः-आग्नेयमन्त्रैः अग्निमुदाहर-स्तुहि ॥ १९ ॥

 [ इन्द्राविष्णू सुरश्रेष्ठौ स्तुहि त्वं मुनिपुत्रक !]
 इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक !
 अम्बरीषस्य यज्ञेऽस्मिन् ततः सिद्धिमवाप्स्यसि ॥ २० ॥

 अनन्तरं-इमे त्वित्यादि । इमे इत्यपरोक्षानुभव (वचन) सिद्धत्वात् । सिद्धिं-जीवितसिद्धिम् ॥ २० ॥

 शुनश्शेफो गृहीत्वा ते द्वे गाथे सुसमाहितः ।
 त्वरया राजसिंहं तमम्बरीषमुवाच ह ॥ २१ ॥
 [१]राजसिंह महासत्व ! शीघ्रं गच्छावहे सदः ।
 निर्वर्तयस्व राजेन्द्र ! दीक्षां च समुपाविश ॥ २२ ॥

 गच्छावहे । तङार्षः । निर्वर्तयस्व । यज्ञमिति शेष ॥ २२ ॥

 तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुकः ।
 जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः ॥ २३ ॥
 [२][३]सदस्यानुमते राजा [४]पवित्रकृतलक्षणम् ।
 पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् ॥ २४ ॥

 पवित्रकृतलक्षणं-दर्भरशनासम्बन्धकृतपशुत्वज्ञापनं अत एव तं रक्ताम्बरत्वसंस्कारवन्तं तं पशुं कृत्वा-यज्ञपशुत्वेन सम्पाद्य यूपेऽबन्धयत् । राजेति शेषः ॥ २४ ॥


  1. अम्बरीष महाभाग-ङ.
  2. स तस्या-ङ.
  3. सदस्यानुमते स्थित इति शेषः-गो.
  4. पवित्रीकृत-ङ.