पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२ सर्गः]
427
स दीनः शरणं प्राप विश्वामित्रं तपोधनम्

 [१]न मेऽस्ति माता न पिता, ज्ञातयो बान्धवाः कुतः ॥
 त्रातुमर्हसि मां सौम्य ! धर्मेण मुनिपुङ्गव !
 त्राता त्वं हि मुनिश्रेष्ठ ! सर्वेषां त्वं हि भावनः ॥ ५ ॥

 बान्धवाः कुत इति । दूरादेवेत्यर्थः । धर्मेण-धर्मप्रयोजनोद्देशेनेत्यर्थः । सर्वेषामिति । शरणागतानामिति शेषः । भावयतीति भावनः-सर्वसाधक इत्यर्थः ॥ ४-५ ॥

 राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः ।
 स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ॥ ६ ॥

 यथा चेत् राजा कृतकार्यस्स्यात्, अहन्त्वव्ययः-अविनाशी दीर्घायुरनुत्तमं तपस्तप्त्वा स्वर्गलोकं-तत्रत्यभोगं उपाश्नीयां भुञ्जे, तथा[२]कुरुष्वेति शेषः ॥ ६॥

 त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा ।
 पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि[३]किल्बिषात् ॥ ७ ॥

 भव्यं-कल्यं । किल्बिषात्-तन्मूलविपत्तेरित्यर्थः ॥ ७ ॥

 तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः ।
 [४]सान्त्वयित्वा बहुविधं[५]पुत्रानिदमुवाच ह ॥ ८ ॥
 [६]यत्कृते पितरः पुत्रान् जनयन्ति शुभार्थिनः ।
 परलोकहितार्थाय तस्य कालोऽयमागतः ॥ ९ ॥


  1. स्वारक्षकत्वेन मात्रादीनां असत्प्रायत्वादेवमुक्तिः
  2. कुरु इति-ग.
  3. किल्बिषात्-जीवविपत्ति-रूपात्-ति.
  4. शान्तयित्वा-ड.
  5. पुत्रान् स्वपुत्रान्
  6. यस्य प्रयोजनस्य कृते पुत्रान् जनयन्ति,मम युष्माकं च परलोकहितार्थाय धर्माय तस्य वाक्यकरणस्य अयं काल आगतः, जीवतोर्वाक्यकरणात्' इति स्मृतेः-गो. हे परलोकहितार्थाः ! परलोकहितं-परलोकप्राप्तिः अर्थः-प्रयोजनं येषां ते-हे परलोकप्रापकपुत्राः !- शि.