पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
426
[बालकाण्डः
शुनश्शेफोपाख्यानम्

द्विषष्टितमः सर्गः

[शुनश्शेफोपाख्यानम्]

 [१]शुनश्शेफं नरश्रेष्ठ ! गृहीत्वा तु महायशाः |
 व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन ! ॥ १ ॥

 अथ पश्चिमायामपि तपोविघ्नः उपदिष्टयज्ञद्वारा-शुनश्शेफमित्यादि । व्यश्राम्यदिति । शमादित्वात् श्यनि दीर्घः । अह्नो मध्यं-मध्याह्नः, एकदेशिसमासः, 'राजाऽहः' इति टचि 'अह्नोऽह्नः' इत्यहादेशः, तस्मिन् मध्याह्ने ॥ १ ॥

 [२]तस्य विश्रममाणस्य शुनश्शेफो महायशाः ।
 पुष्करक्षेत्र[३]मागम्य विश्वामित्रं ददर्श ह ॥ २ ॥
 तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः ।

 विश्रममाणस्येति । विश्राम्यत इति यावत् छान्दसस्तङादिः, भावलक्षणे षष्ठी, तस्मिन् विश्राम्यति सति । आगम्येति । 'वा ल्यपि' इत्यनुनासिकलोपाभावः । मातुलमिति । ऋचीकाय कौशिकी प्रतिपादिता इत्युक्तत्वात्[४]

 विवर्णवदनो दीनस्तृष्णया च श्रमेण च ॥ ३ ॥
 पपाताङ्के मुनेराशु वाक्यं चेदमुवाच ह ।

 तृष्णा-पिपासा । श्रमः-अध्वश्रमः । पपाताङ्क इति । मातुलत्वादेवोत्सङ्गोपसर्पणम् ॥ ३ ॥


  1. 'शुनश्शेपः' इत्यप्यस्य नाम,
  2. अनादरे षष्ठी
  3. मागत्य-ङ. च.
  4. अयं वृत्तान्तः गते ३४ तमे सर्गे द्रष्टव्यः. ॥ २ ॥