पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१ सर्गः]
425
स त्वक्रीणात् शुनश्शेफं पशुप्रतिनिधिं नरम्

 प्रायेण हि नरश्रेष्ठ ! ज्येष्ठाः पितृषु वल्लभाः ।
 मातॄणां च कनीयांसस्तस्माद्रक्ष्ये कनीयसं ॥ १८ ॥

 तस्मात् रक्ष्य इति । स्वसमीपवर्तिनमेवेति शेषः ॥ १८ ॥

 उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च ।
 शुनश्शेफः स्वयं राम ! मध्यमो वाक्यमब्रवीत् ॥ १९ ॥

 रामेति सम्बुद्धिः । मध्यमः-मध्यमपुत्रः ॥ १९ ॥

 पिता ज्येष्ठमविक्रेयं, माता चाह कनीयसम् ।
 विक्रीतं मध्यमं मन्ये राजन् ! पुत्रं ; नयस्व माम् ॥ २० ॥

 विक्रीतं मध्यमं पुत्रं मन्ये । अर्थादिति शेषः । यदेवमतः हे राजन् ! मां नयस्व । ननु 'दानं क्रयधर्मश्च अपत्यस्य न विद्यते' इति धर्मशास्त्रे स्थितं; कथमृषिणा अपत्याविक्रयः? उच्यते-यथा कुलावसादे धर्माय अपत्यदानं प्रसिद्धं, एवं यज्ञाय अपत्यविक्रयो नातिविगर्हितः ॥

 अथ राजा महाबाहो ! वाक्यान्ते ब्रह्मवादिनः ।
 हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः ॥ २१ ॥
 गवां शतसहस्रेण शुनश्शेफं नरेश्वरः ।
 गृहीत्वा परमप्रीतो जगाम रघुनन्दन ! ॥ २२ ॥
 अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः ।
 शुनश्शेफं महातेजाः जगामाशु महायशाः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकषष्टितमः सर्गः

 गिरि (२३) मानः सर्गः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकषष्टितमः सर्गः