पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
428
[बालकाण्डः
शुनश्शेफोपाख्यानम्

 यदित्यादि । शुभार्थिनः पितरो यत्कृते यत्प्रयोजनाय पुत्रान् जनयन्ति, तस्य तत्प्रयोजनसंपादनस्य कालः वः समागतः । किं प्रयोजनाय जनयन्ति ? परलोकहितार्थायैव ॥ ९ ॥

 अयं मुनिसुतो बालो मत्तश्शरणमिच्छति ।
 अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः ! ॥ १० ॥

 किं तादृशं प्रयोजनमिदानीमुपस्थितमित्यतः-अयमित्यादि । शरणं-रक्षणं । अस्य जीवितमात्रेण-प्राणप्रदानमात्रेण मम प्रियं युष्माकं सर्वार्थसाधनभूतं कुरुत ॥ १० ॥

 सर्वे[१]सुकृतकर्माणः सर्वे धर्मपरायणाः ।
 पशुभूता नरेन्दस्य तृप्तिमग्नेः प्रयच्छत ॥ ११ ॥

 स्वनियोगसिद्ध्यर्थमुपश्लोकः-सर्वे सुकृतेत्यादि । नन्वेतज्जी वनाय किमस्माभिः कर्तव्यमित्यतः-पश्वित्यादि । अयं पशुत्वेन राज्ञा गृहीतः । अतस्तत्प्रतिनिधित्वेन पशुभूता[२]नरेन्द्रस्याग्नेस्तृप्तिं प्रयच्छत ॥। ११ ॥

 नाथवांश्च शुनश्शेफो यज्ञश्वाविघ्नितो भवेत् ।
 देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः ॥ १२ ॥

 नाथवान्-मया रक्षकवान् । मम चापि-युष्मत्पितुः वचनं युष्माभिरवश्यं कर्तव्यं कृतं भवति ॥ १२ ॥

 मुनेस्तु वचनं श्रुत्वा[३]मधुष्यन्दादयः सुताः ।
 साभिमानं नरश्रेष्ठ ! सलीलमिदमब्रुवन् ॥ १३ ॥

 साभिमानं-साहङ्कारं । सलीलं सपरिहासं ॥ १३ ॥


  1. च कृत-ड.
  2. नरेन्द्रस्य पशुभूताः-शि. नरेन्द्रसम्बन्धियज्ञीयाग्नेरित्यर्थः ॥
  3. मधुस्यन्दा, मधुच्छन्दा-ङ.