पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१ सर्गः]
423
तस्मिन् कालेऽम्बरीषस्य जहे यशपशुं वृषा

 अद्याऽऽहृत इति । इदानीमस्माभिरिति शेषः । दुर्नयात्-तन्मूलपापवशात् तावकरक्षिणां प्रमादाच्च ॥ ७ ॥

 [१]प्रायश्चित्तं महद्ध्येतत्, नरं वा पुरुषर्षभ !
 आनयस्व पशुं शीघ्रं यावत्कर्म प्रवर्तते ॥ ८ ॥

 नरं वा आनयस्वेति । पशुप्रतिनिधित्वेनेति शेषः । इदं महत्प्रायश्चित्तं पशुनाश इति शेषः । अश्वमेधकर्मणः, पशुविसर्जनानन्तरं कालान्तरभावित्वात् यावत्कर्मकालः प्रवर्तेत, ततः पूर्वं नरं पशुं आनयस्वेत्यर्थः ॥ ८ ॥

 उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभ !
 अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः ॥ ९ ॥

 सहस्रशो गोभिः-अनेकाभिः निष्क्रयभूताभिरिति शेषः ॥ ९ ॥

 देशान् जनपदांस्तांस्तान् नगराणि वनानि च ।
 आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥ १० ॥
 स पुत्रसहितं[२]नाम सभार्यं रघुनन्दन !
 [३]भृगु[४]तुन्दे समासीनमृचीकं संददर्श ह ॥ ११ ॥

 'सपुत्रेत्यत्र' स इति पदं । नामशब्दः प्रसिद्धौ । 'प्रपातस्तु तटो भृगुः' । तुन्दं-अभ्यन्तरप्रदेशः । किञ्चित्पर्वतप्रपाताभ्यन्तरप्रदेश इत्यर्थः ॥ ११ ॥


  1. एतत्-पशुनाशरूपं महत् प्रायश्चित्तं-महतः प्रायश्चित्तस्य कारणम् । प्रक्रान्तं कर्म यावत् प्रवर्तते-प्रवर्तिष्यते तावत्-ततः प्रागेव नष्टं पशुमन्विष्यानय;तत्प्रतिनिधित्वेन क्रीत्वा नरं वा पशुमानयेत्यर्थः-नि. । 'वा' कारेण पशुं वाऽन्विष्यानयस्वेति लभ्यते-गो.
  2. तात-ङ.च.
  3. मृगुतुङ्गं-पर्वतशृङ्गविशेषः-ति.
  4. पुत्रं, तुङ्गे-ङ,