पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
424
[बालकाण्डः
शुनश्शेफोपाख्यानोपक्रमः

 तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च ।
 ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ।
 पृष्ट्वा सर्वत्र कुशलमृचीकं [१]तमिदं वचः ॥ १२ ॥
 गवां शतसहस्रेण विक्रीणीषे सुतं यदि ।
 पशोरर्थे महाभाग ! कृतकृत्योऽस्मि भार्गव ! ॥ १३ ॥

 पशोरर्थे-प्रयोजनाय सुतं विक्रीणीषे यदि, तदा कृतकृत्योऽस्मि । भार्गवेति गोत्रनाम ॥ १३ ॥

 सर्वे परिसृता देशा[२]याज्ञीयं न लभे पशुम् ।
 दातुमर्हसि मूल्येन सुतमेकमितो मम ॥ १४ ॥

 याज्ञीयं-यज्ञाय हितं । 'तस्मै हितम्' इति [३]छः, वृद्धिरार्षी । इतः-सार्वविभक्तिकस्तसिः, एतेष्वित्यर्थः ॥ १४ ॥

 एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः ।
 नाहं ज्येष्ठं नरश्रेष्ठ ! विक्रीणीयां कथञ्चन ॥ १५ ॥
 ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ।
 उवाच नरशार्दूलमम्बरीषं तपस्विनी ॥ १६ ॥
 अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ।
 ममापि दयितं विद्धि कनिष्ठं शुनकं नृप !
 तस्मात्[४]कनीयसं पुत्रं न दास्ये तव पार्थिव ! ॥ १७ ॥

 शुनक इति कनिष्ठपुत्रनाम ॥ १७ ॥


  1. तमिदं वच उवाचेति पूर्वेणान्वयः ।
  2. यज्ञियं-ङ.ज.
  3. छे-ग.
  4. कनीयसमित्यार्षं-एवमुत्तरत्रापि ॥