पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
422
[बालकाण्डः
शुनश्शेफोपाख्यानोपक्रमः

 ‘वसिष्ठतत्पुत्रयाज्यैः निमित्तैर्घोरशक्तितः । विश्वामित्रः क्षीणतपाः पश्चिमे तप्यते तपः' । विश्वामित्रो महात्मेत्यादि । वनवासिन इति । स्वतपोवनवासिन इत्यर्थः ॥ १ ॥

 [१]महान् विघ्नः [२]प्रवृत्तो मे दक्षिणामास्थितो दिशम् ।
 दिशमन्यां प्रवत्स्यामः तत्र तप्स्यामहे तपः ॥ २ ॥

 आस्थितः योऽहं, तस्य मे महान् विघ्नः प्रवृत्त इति योजना ।

 पश्चिमायां विशालायां पुष्करेषु महात्मनः !
 सुखं तपश्चरिष्यामो वरं तद्धि तपोवनम् ॥ ३ ॥

 विशालायां-विशालतपोवनवत्यां पश्चिमायां वर्तमानेषु पुष्करेषु- सोमसूर्याग्नितीर्थेषु-तत्तीरदेशतपोवनेष्वित्यर्थः ॥ ३ ॥

 एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः ।
 तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥ ४ ॥
 एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः ।
 अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥ ५ ॥
 तस्य वै यजमानस्य पशुमिन्द्रो जहार ह ।
 प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥ ६ ॥

 विप्र इति। याजकः पुरोहित इत्यर्थः ॥ ६ ॥

 [३]पशुरद्या[४]ऽऽहृतो राजन् ! प्रणष्टस्तव दुर्नयात् ।
 अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ! ॥ ७ ॥


  1. दक्षिणां दिशमासमन्तात् व्याप्य स्थितः अयं महाविघ्नः प्रवृत्तः-ति.प्रवृत्तः–प्रकृष्टं वृत्तं-वृत्तान्तो यस्मिन्, सोऽयं महान् विघ्नः दक्षिणां दिशं आस्थितः-प्राप्तः-शि.
  2. प्रवृत्तोऽयं-ङ. ज.
  3. पशुः अद्य हृतः, केनचिदिति शेषः । अत एव प्रणष्टः-अदृश्यतां प्राप्तः-शि.
  4. रव हृतः-ङ.