नाभ्यागमंस्तदाहूता भागार्थं सर्वदेवताः ॥ ११ ॥
महता कालेनेति । द्विस्त्रिर्मन्त्रावृत्याऽधिककालेनाधिककालसाध्ययत्नेन च आवाहनं चकार, अथापि नाभ्यागमन् देवताः, अनधिकारिणा अन्याय्येन च कृतं अकृतमेवेति शास्त्रात् ॥ ११ ॥
ततः क्रोधसमाविष्टो विश्वामित्रो महामुनिः ।
स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत् ॥ १२ ॥
क्रोधविकारजं स्रुवोद्यमनं अन्यत् किञ्चित् ॥ १२ ॥
पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर !
एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा ॥ १३ ॥
दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप !
तपसो वीर्यं पश्येति । यज्ञरूपं त्वन्मनीषितसाधनमास्तामिति शेषः ॥ १३ ॥
[१]स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम् ॥ १४ ॥
राजन् ! त्वं तेजसा तस्य सशरीरो दिवं व्रज ।
तस्य सशरीरस्वर्गाय निजतपोव्ययः-स्वार्जितं किञ्चिदित्यादि । तपसः फलं अस्ति यदि तदा हे राजन् ! त्वं तस्य तेजसा-वैभवेनेति योजनार्थः ॥ १४ ॥
उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः ॥ १५ ॥
दिवं जगाम काकुत्स्थ ! मुनीनां पश्यतां तदा ।
पश्यतामिति भावलक्षणे षष्ठी–पश्यत्स्विति यावत् ॥ १५ ॥
देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः ॥ १६ ॥
सह सर्वैस्सुरगणैः इदं वचनमब्रवीत् ।
- ↑ मया स्वार्जितमित्यन्वयः । स्वस्मै आजित-शि. सुष्टु आर्जितं-गो.