पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६० सर्गः]
417
अपातयन् त्रिशङ्कुं तं गुरुशापहतं सुराः

 त्रिशङ्को ! गच्छ [१]भूयस्त्वं नासि स्वर्गकृतालयः ॥ १७॥
 गुरुशापहतो मूढ ! पत भूमिमवाक्छिराः ।

 स्वर्गे निजपुण्यकर्मणा कृतः आलयो यस्य स तथा । स्वर्गावासानर्ह एवासीत्यर्थः । कुत इत्यतः-गुरुशापेत्यादि ॥ १७ ॥

 एवमुक्तो महेन्द्रेण त्रिशङ्कुरपत[२]त्पुनः ॥ १८ ॥
 विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् ।
 तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ॥ १९ ॥
 रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।

 आहारयत्-अकरोदिति यावत् ॥ १९ ॥

 ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः ॥ २० ॥
 सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः ।

 सृजन्-हेतौ शतृप्रत्ययः, सृष्टिं कुर्वन्, तद्धेतोः दक्षिणमार्गस्थान् अपरान् सप्तर्षीन् असृजत् । यथोत्तरतो ध्रुव अचलस्तिष्ठति, एवं त्रिशङ्कुस्तिष्ठतु । तं परितो यथा सप्तर्षिमण्डलं तद्वदत्रापि भवत्वित्याशयः । तथाऽग्रेऽपि द्रष्टव्यम् ॥ २० ॥

 नक्षत्रमालामपरामसृजत् क्रोधमूर्च्छितः ॥ २१ ॥
 दक्षिणां दिशमास्थाय मुनिमध्ये[३]महायशाः ।

 नक्षत्रमाला-सप्तविंशतिनक्षत्रमाला । दक्षिणामास्थायेति । विराजो ब्रह्मणश्शिरोभाग उत्तरा दिक् । तत्र च सप्तसर्गाधिष्ठानो मेरुः । तदुपरि ध्रुवः । येन चण्डालः स्वर्गार्हो भगवदनुमन्यमानः, तेन दक्षिणदिशि सप्तर्ष्याद्याभासः तद्वद्वस्त्वन्तरकल्पनञ्च ॥ २१ ॥


  1. भूयः गच्छेत्यन्वयः ।
  2. द्भुवि-ङ.
  3. महातपाः-ङ.