पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६० सर्गः]
415
तत्प्रभावात् त्रिशङ्कुस्तु सशरीरो दिवं ययौ

 अग्निकल्पो हि भगवान् शापं दास्यति रोषितः ॥ ६ ॥

 किमूचुरित्यतः-यदित्यादि ॥ ५ ॥

 तस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् ।
 गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा ॥ ७ ॥
 ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत ।

 यस्मादनपेतक्षत्रत्वेन अजितकामक्रोधत्वेन शापं दास्यति तस्मादित्यर्थः यदेवमनुष्ठेयांशो निश्चितस्ततः यज्ञः प्रवर्त्यताम् । प्रवर्तिते च यज्ञे सर्वे स्वस्वार्त्विज्यादिकृत्यं समधितिष्ठत-परिगृह्य प्रवर्तयध्वमित्यर्थः ॥

 एवमुक्त्वा महर्षयः चक्रुस्तास्ताः क्रियास्तदा ॥ ८ ॥
 याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ ।

 तास्ताः क्रिया इति । स्वस्वार्त्विज्यकर्माणीत्यर्थः । याजकः-प्रधानार्त्विज्यकर्ता-अध्वर्युरिति यावत् । अत एवाग्रे उच्यते-'स्रुवमुद्यम्य' इति ॥ ८ ॥  ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः ॥ ९ ॥  चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि ।  यथाकल्पं-कल्पसूत्रमनतिक्रम्य । यथाविधि - यथासम्प्रदायानुष्ठानमनतिक्रम्य । कल्पसूत्रे नानात्वपक्षोपन्यासस्थले अनुष्ठेयांशे सम्प्रदाय एव शरणम् ॥ ९ ॥

 ततः कालेन महता विश्वामित्रो महातपाः ॥ १० ॥
 चकारावाहनं तत्र भागार्थं[१]सर्वदेवताः ।


  1. सर्वदेवताः प्रतीति शेषः-गो.भागार्थ सर्वदेवताः आवाहनं चकार-सर्वदेवता इति षष्ठ्येकवचनम् । आगमशास्त्रस्य अनित्यत्वात् याडभावः-शि.