पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
414
[बालकाण्डः
त्रिशङ्कोः स्वर्गारोहणम्

अथ षष्टितमः सर्गः

[त्रिशङ्कोः स्वर्गारोहणम्]

 तपोबलहतान्[१]कृत्वा वासिष्ठान् समहोदयान् ।
 ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ॥१॥

 अथानपेतक्षत्रधर्मत्वादुग्रतपस्त्वाभिमानादन्याय्ययाजनप्रवृत्तिःतपोबलेत्यादि ॥ १॥

 अयमिक्ष्वाकुदायादः त्रिशङ्कुरिति विश्रुतः ।
 धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः ॥२॥
 [२]तेनानेन शरीरेण देवलोकजिगीषया।

 इक्ष्वाकुदायादः । दायमत्तीति दायादः । पचाद्यच् । पुत्रपौत्रादीक्ष्वाकुवंश्य इति यावत् । एवमादिगुणवर्णनं याज्यत्वप्रकाशनाय । वसिष्ठवासिष्ठतिरस्कृतस्य रक्षणे मद्व्यतिरिक्तस्समर्थो नास्तीति निश्चित्य मामेवानेन शरीरेण देवलोकजिगीषया शरणं गत इत्यर्थः ॥

 यथाऽयं स्वशरीरेण[३]स्वर्गलोकं गमिष्यति ॥३॥
 तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह ।

 यदेवमतः—यथेत्यादि ॥३॥

 विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः ॥४॥
 ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम् ।

 समेत्योचुरिति । अन्योन्यमिति शेषः ॥ ४ ॥

 अयं कुशिकदायादो मुनिः परमकोपनः ॥५॥
 यदाह वचनं सम्यगेतत्कार्यं न संशयः ।


  1. ज्ञात्वा-ङ.ज.
  2. स्वेनानेन-ङ.ज.
  3. देवलोकं-ङ.