महोदयश्च दुर्बुद्धिर्भामदूष्यं ह्यदूषयत् ।
दूषितः सर्वलोकेषु निषादत्वं गमिष्यति ॥ २० ॥
मामदूष्यं हीति प्राग्वदभिमानात् ॥ २० ॥
प्राणातिपातनिरतो निरनुक्रोशतां गतः ।
दीर्घकालं मम क्रोधात् दुर्गतिं वर्तयिष्यति ॥ २१ ॥
प्राणातिपातः-प्राणनाशनम् । ननूग्रतपस्वित्वेऽपि ब्रह्मणा इदानीमपि राजर्षित्वानुग्रहतः क्षत्रियत्वानपायात् क्षत्रियचण्डालयाजनस्य सर्वलोकविगर्हितस्य सर्वथैवान्याय्यत्वात् 'प्रत्यगेनमभिचारस्तृणुते' इति न्यायेनान्याय्यकारिणोऽस्यैव तच्छापकृत्यया नाशने न्याय्ये कथं वासिष्ठेषु यथावादिषु शापकृत्यप्रवृत्तिः ? उच्यते-अस्य वसिष्ठवैरनिर्यातनका- मनोपेततपस्वित्वात् भगवताऽपि तत्फलस्यैव प्रदातव्यत्वाद्वासिष्ठानां च तन्निमित्ततः किञ्चित्प्रारब्धस्य च भोक्तव्यत्वात् तच्छापत एव तत्तपोविनाशस्य चावश्यं भाव्यत्वात् भगवदुपासनायाश्च अमोघफलत्वात् भगवदाज्ञयैव वासिष्ठेषु शापप्रवृत्तिः । एतेन वक्ष्यमाणसृष्टिसामर्थ्यं च भगवदाज्ञयैवेति व्याकृतम् । अत एव देवैरेव तत्सर्गो निवार्यते । भगवतस्तद्ब्रह्मविद्याघोरांशमूलक्षुद्रसर्गस्य चेष्टत्वात् 'अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्' इति न्यायेन भगवदनुमतैव तत्सृष्टिः ॥ २१ ॥ एतावदुक्त्वा वचनं विश्वामित्रो महातपाः । विरराम महातेजा ऋषिमध्ये महामुनिः ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकोनषष्टितमः सर्गः
[१]गर (२३) मानः सर्गः ॥ २२ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनषष्टिमः सर्गः
- ↑ अस्मिन् सर्गे षष्ठश्लोकानन्तरगताधिकार्धेन साकं गतसर्गगतमधिकमधेमत्र परिगणितं स्यात् ॥