पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
412
[बालकाण्डः
वासिष्ठादीनां शापावाप्तिः

 ब्राह्मणा वा महात्मानो[१]भुक्त्वा चाण्डालभोजनम् ।
 कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः ॥ १४ ॥

 पालिता इति व्यङ्ग्योक्तिः ॥ १४ ॥

 एतद्वचननैष्टुर्यमूचुः संरक्तलोचनाः ।
 वासिष्ठा मुनिशार्दूल ! सर्वे ते समहोदयाः ॥ १५ ॥

 महोदयसहिताः समहोदयाः ॥ १५ ॥

 तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुङ्गवः ।
 क्रोधसंरक्तनयनः[२]सरोषमिदमब्रवीत् ॥ १६ ॥
 [३]य दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम् ।
 भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः ॥ १७ ॥

 अदुष्टं मामित्यत्र हेतुः-तप उग्रं समास्थितमिति । तेषां तेजोविशेषेण प्रत्यवायो न विद्यते' इति न्यायेन चण्डालयाजनमपि मम जीर्यतीत्यविज्ञाय दूषयन्ति यतः तस्मात् भस्मीभूता इत्यादि ।

 अद्य ते कालपाशेन नीता वैवस्वत[४]क्षयम् ।
 सप्तजातिशतान्येव[५] मृतपाः सन्तु सर्वशः ॥ १८ ॥

 सप्तजातिशतानीति । सप्तशतजन्मानीत्यर्थः । मृतपाः-शवभक्षकाः ॥ १८ ॥

 श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ।
 विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् ॥ १९ ॥

 मुष्टिका नाम । मुष्टिकाख्यगणरूपाः । विकृताः-विकृतवचन-गमनादिमन्तः। विरूपाः-विकटवेषाः ॥ १९ ॥


  1. भक्त्वा चाण्डाल-ङ.
  2. इदं वचनम-ङ.
  3. यद्दूष-ङ
  4. क्षयं गृहम् ।
  5. मृतपाः श्वपाकाः-शि । मुष्टिकाः-हीनजातिविशेषाः-गो । मृतपाः-शववस्त्रादिहारिणः मुष्टिकाः-तन्नामानः, ति.