पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९ सर्गः]
409
अङ्गीचकार तद्याच्ञां कारुण्यात् कुशिकात्मजः

 तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षतः ।
 कर्तुमर्हसि, भद्रं ते, दैवोपहतकर्मणः ॥ २३ ॥

 प्रसादं–दैवानुकूल्यं । दैवेनोपहतफलं इहानुष्ठीयमानं कर्म यस्य स तथा ॥ २३ ॥

 नान्यां गतिं[१]गमिष्यामि नान्यः शरणमस्ति मे ।
 दैवं पुरुषकारेण निवर्तयितुमर्हसि ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टपञ्चाशः सर्गः

 वर (२४) मानः सर्गः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टपञ्चाशः सर्गः


अथ एकोनषष्टितमः सर्गः

[वासिष्ठादीनां शपावाप्तिः]

 [२]उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः ।
 अब्रवीन्मधुरं वाक्यं[३]साक्षाच्चण्डालरूपिणम् ॥ १ ॥


अथ [४]वसिष्ठवैरवशादन्योन्यनिजतपोनाशकरी प्रवृत्तिः-उक्तेत्यादि ॥ १ ॥


  1. प्रपश्यामि-ङ.
  2. जातिचण्डालस्य कदाचित् तद्भावनिवृत्तिरस्ति, न तु कर्मचण्डालस्येत्याह-उक्तवाक्यमित्यादि । साक्षाच्चण्डालरूपिणं, चण्डालचिह्नधारित्वात् न शास्त्रगम्यचण्डालभाव इत्यर्थः-गो. 'साक्षादब्रवीदित्यनेन' चण्डालः साक्षादभिभाषणानर्ह इति निषेधस्य अनर्हः स इति ध्वनितम् । तेन कर्मणा जात्या च स न चण्डाल इति व्यञ्जितम् । अत एव चाण्डालरूपिणमिति विशेषणम्-शि
  3. शापाच्चण्डालरूपिणम्-ङ.
  4. वासिष्ठ इति स्यात् ।