पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
408
[बालकाण्डः
त्रिशङ्कोश्चण्डालत्वप्राप्तिः

 [१]अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।
 कृच्छ्रेष्वपि गतः, सौम्य ! क्षत्रधर्मेण[२]ते शेपे ॥ १९ ॥

 क्षत्रधर्मेणेति । तत्साक्षितयेत्यर्थः ॥ १९ ॥

 [३]यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः ।
 गुरवश्च महात्मानः शीलवृत्तेन तोषिताः ॥ २० ॥

 शीलोपेतं वृत्तं शीलवृत्तं । शीलं-सद्गुणः । वृत्तं-आचारः ॥

 धर्मे[४]प्रयतमानस्य यज्ञं चाहुर्तुमिच्छतः ।
 परितोषं न गच्छन्ति गुरवो मुनिपुङ्गव ! ॥ २१ ॥

 न गच्छन्ति-न गच्छन्ति स्म ॥ २१ ॥

 दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ।
 दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः ॥ २२ ॥

 यदेवमतः–दैवमेवेति । प्रारब्धफलादृष्टमित्यर्थः । परं-श्रेष्ठं । पुरुषहिताहितप्रापकमित्यर्थः । पौरुषं-इदानींतनधर्माद्यनुष्ठानं निरर्थकं-फलोन्मुखप्रारब्धोद्यदर्थानर्थतिरस्कारे दुर्बलमित्यर्थः । दैवेनेत्यादौ दैवशब्द उक्तार्थः । आक्रम्यते-अभिभूयते । हि यस्मादेवं तस्मात् दैवं परमा गतिः । साक्षादितरतिरस्कारेणैहिकसुखदुःखादिप्रद इत्यर्थः ॥ २२ ॥


  1. क्रतुशतं न कृतं त्वयेति चेत्-तत्राह-अनृतमिति । ति गुरोः गुरुपुत्राणां वा अपराधान्तरं मया न कृतमिति बोधयितुमाह-अनृतमिति । मे-मया ।- शि. वसिष्ठ-प्रत्याख्यानमूलं पापं मयि नास्तीत्याशयेनाह-अनृतमिति । यद्वा-'यज्ञोऽनृतेन क्षरति' इति वचनात् ऋतुनाशकत्वेनावगतं अनृतमपि मयि नास्तीत्याह-मे-मया-गो.
  2. ते तुभ्यम् ।
  3. पूर्वं सशरीरत्वसाधनक्रतुशतमुक्तम् अत्र नित्यकर्मेति भिदा । यद्वा,पूर्वे क्रतुशतं इष्टं-यष्टुमुपक्रान्तं; तच्च तादृशक्रत्वनुष्ठानमनोरथः नावाप्यत इत्यर्थः-गो.
  4. प्रयतमानस्येति सप्तम्यर्थे षष्ठी ममेति शेषः-गो.