पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८ सर्गः]
407
स दीनः शरणं प्राप विश्वामित्रं तपोधनम्

 कारुण्यात्स महातेजा वाक्यं परमधार्मिकः ।
 इदं जंगाद, भद्रं ते, राजानं घोररूपिणम् ॥ १४ ॥
 किमागमनकार्यं ते राजपुत्र महाबल !
 अयोध्याधिपते वीर ! [१]शापाच्चण्डालतां गतः ॥ १५ ॥

 यस्त्वं शापाच्चण्डालतां गतः, तस्य ते इह आगमनकार्यं किमिति योजना ॥ १५ ॥

 [२]अथ तद्वाक्य[३]माज्ञात्वा राजा चण्डालतां गतः ।
 अब्रवीत् प्राञ्जलिवाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ १६॥

 आज्ञात्वेति । श्रुत्वेति यावत् ॥ १६ ॥

 प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च ।
 अनवाप्यैव[४]तं कामं मया प्राप्तो विपर्ययः ॥ १७॥

 तं काममिति । यं काममुद्दिश्य गुर्वादीनुपसन्नोऽस्मि, तमप्राप्य । न तावता समाप्तम्, अपि तु विपर्ययः विपरीतप्रयोजनं चैवंवेषरूपं प्राप्तमित्यर्थः ॥ १७ ॥

 [५]सशरीरो दिवं यायामिति मे[६]सौम्य ! दर्शनम् ।
 मया चेष्टं क्रतुशतं, तच्च नावाप्यते फलम् ॥ १८ ॥

 कस्ते कामस्तादृश इत्यतः-सशरीर इत्यादि । दर्शनं-बुद्धिः । तच्चेति । तथापि तत्फलं-सशरीरस्वर्गप्राप्तिरूपमित्यर्थः ॥ १८ ॥


  1. चण्डालतां गतः केन हेतुनेति शेषः-गो. एतेन त्रिशङ्कुशापः पूर्वमेव विश्वामित्रेण श्रुत इति ध्वनितम्-शि.
  2. चण्डालतां गतो राजा तद्वाक्यमाज्ञाय अब्रवीदिति योजना.
  3. माकर्ण्य-ज.
  4. तत्कर्म-ङ.
  5. हे सौम्पदर्शन ! सशरीरोऽहं दिवं यायामिति हेतोः ऋतुशतं मे इष्टं-मदिच्छाविषयीभूतं; तत्-क्रतुशतं मया नावाप्यते--अत एव फलं-सशरीरस्वर्गगमनं च नावाप्यते-शि.
  6. सौम्यदर्शन-ङ.ज.