पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
406
[बालकाण्डः
त्रिशङ्कोश्चण्डालत्वप्राप्तिः

 [१]एवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम् ॥ ९ ॥
 अथ रात्र्यां व्यतीतायां राजा [२]चण्डालतां गतः ।
 नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजः ॥ १० ॥
 चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत् ।

 चित्येति । चिता-श्मशानं तत्र भवं माल्यं, अनुलेपः-चिताभस्म यस्य स तथा । अयोविकारः-आयसम् ॥ १२ ॥

 तं दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम् ।
 प्राद्रवन् सहिता राम ! पौरा येऽस्यानुगामिनः ॥ ११ ॥
 एको हि राजा काकुत्स्थ ! जगाम परमात्मवान् ।
 दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् ॥ १२ ॥

 एको हीति । हि यस्मात् मन्त्रिपौरपरित्यक्तः तस्मादेकाकी अटन् दिवारात्रं दुःखेन दह्यमानोऽपि परमात्मवान्-परमधृतिमान् भूत्वा वसिष्ठवैरिणं विश्वामित्रं जगाम ॥ १४ ॥

 विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् ।
 चण्डालरूपिणं राम ! मुनिः कारुण्यमागतः ॥ १३ ॥

 विफलीकृतं-वासिष्ठैर्विनाशितैहिकामुष्मिकार्थतया सम्पादितं ॥


  1. एतदनन्तरम्-तच्छ्रुत्वा घोरसंकाशं ऋषिपुत्रैश्च भाषितम् । प्राविशत् स्वपुरं राजा चिन्तयामास दुःखितः-इत्यधिकम्-ङ.
  2. अत्र चण्डालत्वं न तत्सादृश्यमात्रं, किन्तु क्षत्रियत्वप्रहाणेन चण्डालत्वजातिप्राप्तिः । ब्राह्मणत्वादिजातेः कर्ममूलत्वेन तदपाये तदपायात्-गो ।
    परन्तु अनन्तरसर्गे प्रथम-चतुर्थश्लोक व्याख्यानावसरे गोविन्दराजैरेव त्रिशङ्कुयाजनोपपादनाय त्रिशङ्कोः जातिचण्डालत्वाभाव उक्त । चण्डालत्वजातिरेव द्विविधा कर्ममूला,वंशमूला चेति इत्युक्तिरपि शब्दभेदमात्रे पर्यवस्येत् । षष्टितम सर्गान्तगतं एतद्व्याख्यानं च द्रष्टव्यम् ।
    चण्डालतां-चाण्डालरूपम्-शि.