पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८ सर्गः]
405
गुर्वतिक्रमणात् शप्त: राजा चण्डालतां गतः

 अशक्यमिति चोवाच वसिष्ठो भगवानृषिः ।
 तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव ॥ ४ ॥

 तं वयमिति । यमशक्यमित्युवाच, तं यज्ञमित्यर्थः ॥ ४ ॥

 बालिशस्त्वं नरश्रेष्ठ ! गम्यतां स्वपुरं पुनः ।
 याजने भगवान् शक्तः[१]त्रैलोक्यस्यापि पार्थिव ! ॥ ५ ॥

 बालिशः । अज्ञ इत्यर्थः । त्रैलोक्यस्यापीति । सिद्ध्यर्थे याजन इति योजना ॥ ५ ॥

 अवमानं [२]च तत्कर्तुं तस्य शक्ष्यामहे[३]कथम् ।

 अवमानमिति । तदसाध्यार्थसाधनरूपमित्यर्थः ॥

 तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् ॥ ६ ॥
 स राजा पुनरेवैतान् इदं वचनमब्रवीत् ।

 एतानिति । वासिष्ठानित्यर्थः ॥ ६ ॥

 प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रै[४]स्तथैव च ॥ ८ ॥
 अन्यां गतिं गमिष्यामि, स्वस्ति वोऽस्तु तपोधनाः ।

 अन्यां गतिमिति । याजकान्तरमित्यर्थः ॥ ८ ॥

 ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् ॥ ८ ॥
 शेपुः परमसंक्रुद्धाः चण्डालत्वं गमिष्यसि ।

 घोराभिसंहितमिति । साक्षात्कुलगुरुं ब्रह्मपुत्रं वसिष्ठं व्यतिक्रम्य पुरोधान्तराश्रयणाभिसन्धानस्य इच्छायाः कुलनाशहेतुत्वेनातिघोरत्वम् । गमिष्यसीति शेपुरिति योजना ॥ ९ ॥


  1. त्रैलोकस्यापि याजने शक्तः-शि.
  2. कथंकर्तुं-ङ.
  3. वयम्-ङ.
  4. विशेषतः-ङ.