पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
404
[बालकाण्डः
त्रिशङ्कोश्चण्डालत्वप्राप्तिः

 प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः ॥ २० ॥
 गुरुपुत्रानृते सर्वान् नाहं पश्यामि कां चन ।
 [१]इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः ॥
 तस्मादनन्तरं सर्वे भवन्तो दैवतं मम ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तपञ्चाशः सर्गः

 तस्मात्-स्वकुलनृपतारकस्वकुलपुरोधसो वसिष्ठादनन्तरमित्यर्थः ।

कर (२१) मानः सर्गः ॥ २१॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तपञ्चाशः सर्गः

अथ अष्टपञ्चाशः सर्गः

[त्रिशङ्कोचण्डालत्वप्राप्तिः]

 ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् ।
 ऋषिपुत्रशतं राम ! राजानमिदमब्रवीत् ॥ १ ॥

 एवमनुचिताचारतोऽनर्थाप्तिप्रतिपादनम्-ततस्त्रिशङ्कोरित्यादि ॥ १ ॥

 प्रत्याख्यातो हि दुर्बुद्धे ! गुरुणा सत्यवादिना ।
 तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ॥ २ ॥

 तं कथमिति । स्वकुलगुरुमित्यर्थः । शाखान्तरं-याजकादिना रक्षकान्तरम् ॥२॥

 इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमो गुरुः ।
 न चातिक्रमितुं शक्यं वचनं सत्यवादिनः ॥ ३ ॥

 न चातिक्रमितुं शक्यमिति । इक्ष्वाकुभिरिति शेषः ॥ ३ ॥


  1. एतदनन्तरं-पुरोधसस्तु विद्वांसस्तारयन्ति सदा नृपान्-इत्यधिकम्-ङ.