वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे ।
त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम् ॥ १४ ॥
वासिष्ठान् संददर्शाथ तप्यमानान्[१]यशस्विनः ।
यत्र तेपिर इति । गत्वेति शेषः । शतं वासिष्ठानिति । बह्वर्थे शतमित्येकत्वनिपातात् सामानाधिकरण्यम् ॥ १४ ॥
ह्रियेति । वसिष्ठप्रत्याख्यानजयेति शेषः । सुमहात्मानस्सर्वानिति । छान्दसो जस् ॥ १६ ॥
शरणं वः प्रपद्येऽहं शरण्यान्[४]शरणागतः ।
प्रत्याख्यातोऽस्मि, भद्रं वः, वसिष्ठेन महात्मना ॥ १७ ॥
शरणागतः-शरणं रक्षितारं रक्षित्रपेक्षया आगतः अहं शरण्यान्-रक्षणसमर्थान् वः-युष्मानेव शरणं प्रपद्ये ॥ १७ ॥
यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ ।
गुरुपुत्रानहं सर्वान् नमस्कृत्य प्रसादये ॥ १८ ॥
शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान् ।
ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः ॥ १९ ॥
सशरीरो यथाऽहं हि देवलोकमवाप्नुयाम् ।
ब्राह्मणान्-अन्वर्थब्राह्मणान् । अत एव-तपसि स्थितान् ॥