पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
402
[बालकाण्डः
त्रिशङ्कोः स्वगजिगमिषा

 सुमहत्तपस्तप्तम् । एवमपि मां राजर्षिरित्येव विदुः-अवगच्छन्त इति बत ! लटि विदेरुस् । इदं तपःफलं-अस्मदिष्टं नास्ति-न भवतीति मन्ये ॥ ८ ॥

 [१]एवं निश्चित्य मनसा भूय एव महातपाः ।
 तपश्चकार काकुत्स्थ ! परमं परमात्मवान् ॥ ९ ॥

 परमात्मवान्–ब्रह्मविद्यादैवतश्रीमदादिगुरुपरमात्मब्रह्मध्यानवान् परमधृतिमांश्च । "आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि" ॥ ९ ॥

 एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः ।
 त्रिशङ्कुरिति विख्यातः इक्ष्वाकुकुलवर्धनः ॥ १० ॥
 तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव !
 गच्छेयं[२]सशरीरेण देवानां परमां गतिम् ॥ ११ ॥

 गच्छेयमिति । यज्ञबलेनेति शेषः । सशरीरेणेति । स्वात्मनेति शेषः ॥ ११ ॥

 स वसिष्ठं समाहूय कथयामास चिन्तितम् ।
 [३]अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना ॥ १२ ॥
 प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् ।
 ततस्तत्कर्मसिद्ध्यर्थं[४]पुत्रांस्तस्य गतो नृपः ॥ १३ ॥

 तत्कर्मसिद्ध्यर्थमिति । सशरीरस्वर्गप्रापकयज्ञसिद्ध्यर्थमित्यर्थः ॥


  1. एतदनन्तरं 'कोपेन महताविष्टस्त्रैलोक्यं व्यथयन्निव' इत्यधिकम्-ङ
  2. स्वशरीरेण-ङ.
  3. अशक्यत्वं च--न ऋषेरसामर्थ्यात्, नापि तादृशकर्मविधानाभावात्,'सशरीर एव स्वर्गं लोकमेति' इति श्रुतेः । किन्तु, त्रिशङ्कोस्तादृश स्वर्गप्राप्तिर्नास्तीति पूर्वकल्पवृत्तज्ञानादिति मन्तव्यम्- गो.
  4. तस्य-वसिष्ठस्य पुत्रान् नृपः-त्रिशङ्कुः गतः-प्राप्तः ।