पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७ सर्गः]
401
एतस्मिन्नन्तरे, त्वासीत् त्रिशङ्कुरिति भूपतिः

 अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः ।
 हविष्यन्दो मधुष्यन्दो दृढनेत्रो महारथः ॥ ३ ॥
 पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः ।
 अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ॥ ४ ॥
 जिता राजर्षिलोकास्ते तपसा कुशिकात्मज !
 अनेन तपसा त्वां तु राजर्षिरिति विद्महे ॥ ५ ॥

 पूर्णे वर्षसहस्रे तु ब्रह्माऽब्रवीदिति । ब्रह्मर्षित्वाय ब्रह्मविद्यया तदधिदैवतब्रह्मविद्योपासकत्वात् स एव भगवांस्तदुचितफलदानाय सन्निधत्ते ।[१]विद्महे इति । 'विदो लटो वा' इति मसो मादेशः ॥ ५ ॥

 एवमुक्त्वा महातेजा जगाम सह दैवतैः ।
 [२]त्रिविष्टपं, ब्रह्मलोकं लोकानां परमेश्वरः ॥ ६ ॥

 लोकानां-भूरादीनां तद्वर्तिलोकानां सर्वस्रोतसां च असङ्कोचोपचारेण परमेश्वरः-भगवान्-ब्रह्मा ब्रह्मलोकं जगाम । देवास्त्रिविष्टपं जग्मुरिति विपरिणामः ॥ ६ ॥

 विश्वामित्रोऽपि तच्छ्रुत्वा हिया किञ्चिदवाङ्मुखः ।
 दुःखेन महताऽऽविष्टः[३]समन्युरिदमब्रवीत् ॥ ७ ॥
 समन्युरिदमब्रवीदति । स्वं प्रत्येवेदं वचनम् ॥ ७ ॥
 तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः ।
 देवाः सर्षिगणाः सर्वे नास्ति मन्ये[४]तपःफलम् ॥ ८ ॥


  1. आर्षमात्मनेपदम्-गो.
  2. अत्र 'त्रिविष्टपं जगाम' इत्युक्त्या तत्र इन्द्रं
    संस्थापयामासेति ध्वनितम् । तेन इन्द्रस्य विश्वामित्रतपोभीतत्वं व्यञ्जितम्-शि.
  3. समन्युः-सदैन्यः-'मन्युदैन्ये क्रतौ ऋषि' इत्यमरः-गो. ति.
  4. एतन्मात्रं मत्तपः फलं न भवति, ब्राह्मण्यस्यैव मदभिमतत्वादिति भावः-गो.