पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
400
[बालकाण्डः
त्रिशङ्कोः स्वर्गजिगमिषा

 धिग्बलं क्षत्रियबलं ब्रह्मतेजो बलं बलम् ।
 एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥ २३ ॥

 धिग्बलमिति । 'धिगुपर्यादिषु' इति द्वितीया ॥ २३ ॥ तदेतत्समवेक्ष्याहं प्रसन्नेन्द्रियमानसः । तपो महत्समास्थास्ये यद्वै ब्रह्मत्वकारणम् ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षट्पञ्चाशः सर्गः

 तदेतदिति । ब्रह्मतेजोबलमित्यर्थः । प्रसन्नेन्द्रियमानस इति । परित्यक्तक्षत्रस्वभाव इति यावत् । भार. (२४) मानः सर्गः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षट्पञ्चाशः सर्गः

अथ सप्तपञ्चाशः सर्गः
[त्रिशङ्कोः स्वर्गजिगमिषा]

 [१]ततः सन्तप्तहृदयः स्मरन्निग्रहमात्मनः ।
 विनिश्वस्य विनिश्वस्य, कृतवैरो महात्मना ॥ १ ॥
 स दक्षिणां दिशं गत्वा महिष्या सह राघव !
 [२]तताप परमं घोरं विश्वामित्रो महत्तपः ॥ २ ॥

 अथ चतुर्व्यूहानामेकैकप्राधान्येन दक्षिणादिदिक्षु विश्वामित्रतपः- प्रवृत्तिर्ब्रह्मत्वायोत्तरसर्गैः-तत इत्यादि । महात्मना-वसिष्ठेन कृतवैर इति । इदमेव वक्ष्यमाणतत्तपोनाशबीजम् ॥ २॥


  1. श्लोकद्वयमेकवाक्यम्.
  2. एतदनन्तरं-फलमूलाशनो दान्तः चकार परमं तपः ॥ इत्यधिकं-ङ.