पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
396
[बालकाण्डः
विश्वामित्रनिग्रहः

 क्षत्रबन्धो ! स्थितोऽस्म्येषः, यद्बलं तद्विदर्शय ।
 [१]नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज ॥ ३ ॥

 तिष्ठ तिष्ठेति भीषयन्तं विश्वामित्रं प्रति स्वभीप्रसङ्गाभावः प्रकाश्यते—स्थितोऽस्म्येष इत्यादि । शस्त्रस्य दर्पं-शस्त्राप्तिहेतोरुत्पन्नमित्यर्थः ॥ ३ ॥

 क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् ।
 पश्य ब्रह्मबलं दिव्यं मम [२]क्षत्रियपांसन ! ॥ ४ ॥
 तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुद्यतम् ।
 ब्रह्मदण्डेन तच्छान्तं अग्नेर्वेग इवाम्भसा ॥ ५ ॥

 क्षत्रियपांसन ! इत्युक्त्वा स्थितस्य वसिष्ठस्य ब्रह्मदण्डेन तस्य गाधिपुत्रस्य आग्नेयमुद्यतं तत् अस्त्रं शान्तमभवत् ॥ ५ ॥

 वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा ।
 ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः ॥ ६॥
 मानवं मोहनं चैव गान्धर्वं स्वापनं तथा ।
 जृम्भणं मादनं चैव संतापनविलापने ॥ ७ ॥
 शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् ।
 ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥ ८ ॥
 पैनाकास्त्रं च दयितं शुष्कार्द्रे अशनी उभे ।
 दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥ ९ ॥


  1. ते दर्पं तव शस्त्रस्य च दर्पं नाशयामि-गो. यत् ते बलं तत् विदर्शय तव शस्त्रस्य दर्पं-गर्वं अद्यैवाहं नाशयामि-शि.
  2. क्षत्रियपांसनेत्यनन्तरं वसिष्ठोऽब्रवीदित्यनुक्कृष्यते-गो.