अथ वसिष्ठः पलायमानप्राणिजातं एवमुक्त्वा, विश्वामित्रमिदं वक्ष्यमाणं वाक्यं अब्रवीत् ॥ २६ ॥ ॥
आश्रमं चिरसंवृद्धं यद्विनाशितवानसि ।
दुराचारोऽसि तन्मूढ ! तस्मात्त्वं न भविष्यसि ॥ २७ ॥
न भविष्यसीति-नशिष्यसीति यावत् ॥ २७ ॥
इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः ।
[१]विधूम इव कालाग्निः यमदण्डमिवापरम् ॥ २८ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चपञ्चाशस्सर्गः
विधूमः कालाग्निरिव परमक्रुद्धः वसिष्ठोऽपरं यमदण्डमिव स्थितं ब्रह्मदण्डं उद्यम्य-उद्धृत्य गृहीत्वा तस्थाविति शेषः राज (२८) मानः सर्गः ॥ २८ ॥
इति श्रीमद्रामायणामृतकतकटीयायां बालकाण्डे पञ्चपञ्चाशः सर्गः
अथ षट्पञ्चाशः सर्गः
[विश्वामित्रनिग्रहः]
एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः ।
[२]आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥
अथ वरप्राप्तसर्वास्त्रबलस्य च नाशनं-एवमित्यादि । एवमुक्त इति । न भविष्यसीत्युक्त इति यावत् ॥ १ ॥
ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवापरम् ।
वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ॥ २ ॥