उदीर्यमाणमस्त्रं तत् विश्वामित्रस्य धीमतः ।
दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥ २२ ॥
उदीर्यमाणं-विसृज्यमानमिति यावत् । विश्वामित्रेणेति शेषः ॥ २२ ॥
वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः ।
विद्रवन्ति भयाद्भीता[१]नानादिग्भ्यः सहस्रशः ॥ २३ ॥
भयादिति । भयहेतोरस्त्रजालादित्यर्थः ॥ २३ ॥
वसिष्ठस्याश्रमपदं शून्यमासीन्महान्मनः ।
मुहूर्तमिव निश्शब्दमासीदिरिणसन्निभम् ॥ २४ ॥
सर्वप्राणिपलायनात् शून्यं वसिष्ठस्याश्रमपदं, अत एव निश्शब्दं, अत एव मुहूर्तमिरिणसन्निभं-निर्वृक्षवृथागुल्मनिर्मानुष्क- कान्तारसन्निभमासीत् ॥ २४ ॥
[२]वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः ।
नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥ २५ ॥
ननु कथं वसिष्ठे विद्यमाने विद्रवणमाश्रमवासिनामित्यत्रोक्तम्- वदत इत्यादि । गाधेय-'द्व्यचः' इति ढक्, गाधेयं नाशयामि, मा भैः हे प्रजाः ! इति वदतो वसिष्ठस्य अभिवादनमनादृत्य व्रिद्रुवुरित्यन्वयः ॥ २५ ॥
एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः ।
विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ २६ ॥