पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५ सर्गः]
393
ततस्तप्त्वा शिवाल्लेभे धनुर्वेदं स कौशिकः

 एवमुक्तस्तु देवेन विश्वामित्रो महातपाः ।
 प्रणिपत्य महादेवमिदं वचनमब्रवीत् ॥ १५ ॥
 यदि तुष्टो महादेव ! धनुर्वेदो ममानघ !
 [१]साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् ॥ १६ ॥

 साक्षादारादुपकारकत्वलक्षणान्यङ्गोपाङ्गानि प्रधानस्य, तत्साधकरहस्यमन्त्र उपनिषदः । तत्राङ्गोपाङ्गमन्त्रसहितस्साङ्गोपाङ्गोपनिषदः । सदेः पचाद्यचि 'सदिरप्रतेः' इति षत्वम् । रहस्यं-शास्त्राशक्य-निबन्धनमाचार्यमुखैकगम्यं विद्याजातम् ॥ १६ ॥

 यानि देवेषु चास्त्राणि दानवेषु महर्षिषु ।
 गन्धर्वयक्षरक्षस्सु प्रतिभान्तु ममानघ ॥ १७ ॥
 तव प्रसादाद्भवतु देवदेव ! ममेप्सितम् ।

 तव प्रसादादिति । न तु प्रातिखिकत्वदुपदेशमपेक्ष्येत्यर्थः ॥ १७ ॥

 एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥ १८ ॥
 प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबलः ।
 दर्पेण महता युक्तो दर्पपूर्णोऽभवत् तदा ॥ १९ ॥

 क्षत्त्रियत्वादेव दर्पः सहजः, तस्य पूर्तिर्दिव्यास्त्रलाभात् ॥ १९ ॥

 विवर्धमानो वीर्येण समुद्र इव पर्वणि ।
 हतमेव तदा मेने वसिष्ठमृषिसत्तमम् ॥ २० ॥
 ततो गत्वाऽऽश्रमपदं मुमोचास्त्राणि पार्थिवः ।
 यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा ॥ २१ ॥

 यैर्निर्दग्धं तादृशास्त्राणीति योजना ॥ २१ ॥


  1. उपनिषद इति । 'द्वन्द्वात् चुदषहान्तात् समाहारे' इति टच् । अदन्तो वा-शि.