पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६ सर्गः ]
397
वसिष्ठस्तानि सर्वाणि जग्रसे ब्रह्मतेजसा

 वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥ १० ॥
 [धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च ।]
 शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा ।
 वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥ ११ ॥
 त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम् ।
 एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ! ॥ १२ ॥
 [१]वसिष्ठे[२] जपतां श्रेष्ठे, तदद्भुतमिवाभवत् ।
 तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥ १३ ॥
 तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः ।

 एतानि उक्तरूपाणि अस्त्राणि वसिष्ठे चिक्षेप । तानि दण्डेन ग्रसते स्मेति यत् तदिन्द्रजालमहेन्द्रजालाद्यद्भुतमिव सर्वाश्चर्यकरमभव- दित्यर्थः ॥ १३ ॥

 तदस्त्रमुद्यतं दृष्ट्वा देवाः[३]साग्निपुरोगमाः ॥ १४ ॥
 देवर्षयश्च संभ्रान्ता गन्धर्वाः समहोरगाः ।
 त्रैलोक्यमासीत् सन्त्रस्तं ब्रह्मास्त्रे समुदीरिते ॥ १५ ॥

 ब्रह्मास्त्रे समुदीरिते त्रैलोक्यं सन्त्रस्तमिति । तस्याप्रतिक्रियामोघत्वात्, प्रतिब्रह्मास्त्रस्यैव वसिष्ठेनापि प्रयोगे उभाभ्यां सर्वलोकनाशप्रसङ्ग इति त्रासः ॥ १५ ॥


  1. जपतां श्रेष्ठे इत्यनेन जपवैभवमिदं ग्रसनमिति द्योतितम् । तत्–अस्त्रक्षेपणं अद्भुतमिवाभवत्, कार्यलेशस्याप्यदर्शनादिति भावः-गो.
  2. जयतां श्रेष्ठे-ङ.
  3. अग्निपुरोगमः-वायुः,
    तत्सहिताः; अग्निसहितो वायुः पुरोगमः येषां ते इति वा ति.