विश्वामित्रार्दितान् दृष्ट्वा पप्लवान् शतशस्तदा ।
भूय एवासृजत् कोपात् शकान् यवनमिश्रितान् ॥ २० ॥
अर्दिताः-पीडिताः ॥ २० ॥
तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः ।
प्रभावद्भिर्महावीर्यैः हेमाकञ्जलकसन्निभैः ॥ २१ ॥
प्रभा-दुर्निरीक्षतेजः । हेम्नः किञ्जल्कस्य सन्निभास्तथा ॥ २१ ॥
दीर्घासिपट्टसधरैः हेमवर्णाम्बरावृतैः ।
निर्दग्धं तद्वलं सर्वं प्रदीप्तैरिव पावकैः ॥ २२ ॥
हेमवर्णाम्बरेति । पीताम्बरेति यावत् ॥ २२ ॥
ततोऽस्त्राणि महातेजाः विश्वामित्रो मुमोच ह ।
तैस्तैर्यवनकाम्भोजाः पप्लवाश्चाकुलीकृताः ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुष्पञ्चशः सर्गः
गर (२३) मानः सर्गः ॥ २३ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुष्पञ्चशः सर्गः
अथ पञ्चपञ्चाशः सर्गः
[विश्वामित्रधनुर्वेदाधिगमः]
ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् ।
वसिष्ठश्चोदयामास कामधुक् ! सृज [१]योगतः ॥ १ ॥
- ↑ योगतः-योगमहिम्ना । तिरश्चोऽपि ब्रह्मप्रसादात् योगशक्तिरस्तीति ज्ञेयम्-गो.