पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४ सर्गः]
389
सुरभिः साऽसृजत् सेनां वसिष्ठस्थाज्ञया तदा

 [१][२]अप्रमेयं बलं तुभ्यं, न [३]त्वया बलवत्तरः ।
 विश्वामित्रो महावीर्यः, तेजस्तव दुरासदम् ॥ १४ ॥

 त्वया बलवत्तर इति न, त्वया सदृशोऽपि त्वत्तो बलवत्तर इति दूरे इत्यर्थः ॥ १४ ॥

 [४]नियुङ्क्ष्व मां महातेजः ! त्वद्ब्रह्मबलसम्भृताम् ।
 तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः ॥ १५ ॥

 त्वदाश्रिततया ममापि अयं न पर्याप्त इत्याह–नियुङ्क्ष्वेत्यादि ।

 इत्युक्तस्तु तया राम ! वसिष्ठस्तु महायशाः ।
 सृजस्वेति तदोवाच बलं ।[५][६]परबलारुजम् ॥ १६ ॥
 तस्य तद्वचनं श्रुत्वा सुरभिः साऽसृजत्तदा ॥ १७ ॥
 तस्या[७]हुम्भारवोत्सृष्टाः[८]पप्लवाः शतशो नृप !
 नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः ॥ १८ ॥

 पप्लवशकयवनकाम्भोजद्वैप्यजना अवान्तरजातिविशेषाः । पश्यत इति अनादरे षष्ठी ॥ १८ ॥

 बलं भग्नं ततो दृष्ट्वा रथेनाक्रम्य कौशिकः ।
 स राजा परमक्रुद्धः क्रोधविष्फारितेक्षणः ।
 पप्लवान्नाशयामास शस्त्रैरुच्चावचैरपि ॥ १९ ॥

 विष्फारितं–विवृतं, स्फुरेः ण्यन्तात् निष्ठायां, 'स्फुरतिस्फुलत्योर्धञि' इत्यात्वे, 'स्फुरतिस्फुलत्योर्निर्निविभ्यः' इति षत्वम् ॥ १९ ॥


  1. तुभ्यं तव बलं अप्रमेयम् । महावीर्योऽपि विश्वामित्रः त्वया-त्वत्तः न बलवत्तरः ॥
  2. अप्रमेयबलं-ङ.
  3. त्वत्तो, त्वस्य-ङ.
  4. कामधेनुत्वान्नियोगापेक्षा; परकाम्यार्थसृष्टावेव तस्याः सामर्थ्यात्-ति.
  5. आरुजति-हिनस्तीति-आरुजं-गो.
  6. परबलार्दनम्-ङ.
  7. हुङ्कार-ङ.
  8. पह्लवाः-ङ.पह्लवा-ज.पल्लवा-झ. [एवमुत्तरत्रापि]