पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
388
[बालकाण्डः
विश्वामित्रबलविमर्दनम्

 त्वत्सकाशतः-त्वत्समीपात् ॥ ७ ॥

 एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् ।
 शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम् ॥ ८ ॥

 स्वसा-भगिनी ॥ ८ ॥

 न त्वां त्यजामि शबले ! नापि मेऽपकृतं त्वया ।
 एष त्वां नयते राजा[१]बलोन्मत्तो महाबलः ॥ ९ ॥
 [२]न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः ।
 बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ॥ १० ॥

 बलोन्मत्तेन ह्रियत इति ; किं भवतो बलं नास्ति ? नेत्याह-न हीत्यादि ॥ १० ॥

 इयमक्षौहिणी पूर्णा सवाजिरथसङ्कुला ।
 हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥ ११ ॥
 एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ।
 वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् ॥ १२ ॥

 विनीतवत्-विनयोपेतं यथा तथा उवाच ॥ १२ ॥

 न बलं क्षत्रियस्याहुः ब्राह्मणो बलवत्तरः ।
 ब्रह्मन् ! ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् ॥ १३ ॥

 बलवत्तर इति । क्षत्रियादिति शेषः । यदेवमतः-ब्रह्मन्नित्यादि ।


  1. बलान्मत्तो-ज.
  2. मह्यं-मम बलं न हि तद्वलेन तुल्यमित्यर्थः । तपोबलेन तर्हि दण्ड्यता-मित्यत्राह-राजा त्विति । राजत्वात् तपोबलेन न दण्ड्य इति भावः । तद्वक्ष्यति किष्किन्धायां-'राजानो वानरश्रेष्ठ....तान्न हिंस्यात्.... ' इति । अद्य-कृतातिथ्यके दिने, अतिथित्वात् विशेषतोऽवध्यः-ति ॥