पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४ सर्गः]
387
ततस्तां शबलां धार्ष्ट्यात् विश्वामित्रोऽन्वकर्षत

 एवं सामदानाभ्यां शबलाया अप्राप्तौ दण्डोपाये प्रवृत्तिर्विश्वामित्रस्य –कामधेनुमित्यादि । यदा न त्यजते-तङार्षः, न त्यजति स्म, तदा अन्वकर्षत । बलात्कारणेति शेषः ॥ १ ॥

 नीयमाना तु शबला राम ! राज्ञा महात्मना ।
 दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ॥ २ ॥
 परित्यक्ता वसिष्ठेन किमहं सुमहात्मना ।
 याऽहं[१]राजभृतैर्दीना[२]हियेय भृशदुःखिता ॥ ३ ॥

 राज्ञो भृताः-भ्रियन्त इति भृताः-भृतकास्सेवका इति यावत् । ह्वियेय-कर्मणि संप्रश्ने लिङ्–कथमपह्नियेयेत्यर्थः । भृशदुःखिता-भृशं दुःखिता-वृत्तिविषये मकारलोपो भृशमादिमान्ताव्ययस्येष्यते ॥

 किं मयाऽपकृतं तस्य महर्षेर्भावितात्मनः ।
 [३]यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः ॥ ४ ॥

 किमपकृतं-किपराद्धम् ॥ ४ ॥

 निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन !
 जगामानिलवेगेन पादमूलं महात्मनः ॥ ५ ॥
 शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् ।
 वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी ॥ ६ ॥

 शतशो भृत्यानिति । आवारकानिति शेषः । पादमूलं–पादसमीपम् ॥ ६ ॥

 भगवन् ! किं परित्यक्ता त्वयाऽहं ब्रह्मणः सुत !
 यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः ॥ ७॥


  1. राजभटैः-ङ.
  2. डियेयं-ड.ज.
  3. एतदनन्तरं-इति सा चिन्तयित्वा तु
    विनिश्वस्य पुनःपुनः । जगाम वेगेन तदा वसिष्ठं परमौजसम् ॥– इत्यधिकं-ङ.