पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
386
[बालकाण्डः
विश्वामित्रबलविमर्दनम्

 यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम !
 तावद्ददामि तत्सर्वं, शबला दीयतां मम ॥ २२ ॥
 एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता ।
 न दास्यामीति शबलां प्राह,[१]राजन् ! कथञ्चन ॥ २३ ॥
 एतदेव हि मे रत्नमेतदेव हि मे धनम् ।
 एतदेव हि सर्वस्वमेतदेव हि जीवितम् ॥ २४ ॥
 दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः ।
 एतदेव हि मे राजन् ! विविधाश्व क्रियास्तथा ॥ २५ ॥
 [२]अदोमूलाः क्रियाः सर्वा मम राजन् ! न संशयः ।
 बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिपञ्चाशः सर्गः

 अदोमूला इति । एतन्मूला इत्यर्थः । कामान् दोग्धुं शीलमस्या इति-कामदोहिनी-"सुप्यजातौ" इति णिनिः । तरु (२६) मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिपञ्चाशः सर्गः

अथ चतुष्पञ्चाशः सर्गः
[विश्वामित्रबलविमर्दनम्]

 कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः ।
 तदाऽस्य शबलां राम ! विश्वामित्रोऽन्वकर्षत ॥ १ ॥


  1. हे राजन् ! कथञ्जन शबलां न दास्यामीति भगवान् प्राह-इति योजना ।
  2. अतोमूलाः-च. ज.