पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३ सर्गः]
385
नाङ्गीचकार तद्याच्ञां वसिष्ठो जपतां वरः

 सर्वस्वमेतत् सत्येन मम तुष्टिकरी सदा ।
 कारणैर्बहुभी राजन् ! न दास्ये शबलां तव ॥ १६ ॥

 मम सर्वस्वमेतदेव-शबलास्वरूपमेव । कारणान्युक्तरूपाणि ॥

 वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्ततः ।
 संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः ॥ १७ ॥

 संरब्धतरं-अत्यन्ताग्रहयुक्तम् ॥ १७ ॥

 हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् ।
 ददामि कुञ्जराणां ते सहस्राणि चतुर्दश ॥ १८ ॥

 हैरण्यानि-हिरण्यविकाराणि कक्ष्याग्रैवेयाणि येषां ते तथा । कक्ष्या–घण्टोपेतमध्यबन्धनशृङ्खलाविशेषः । ग्रैवेयं-ग्रीवाभूषणभूतस्वर्ण-शृङ्खलादिः, "ग्रीवाभ्योऽण् च" इति चात् ढञ् ॥ १८ ॥

 हैरण्यानां रथानां ते [१]श्वेताश्वानां चतुर्युजाम् ।
 ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् ॥ १९ ॥

 चतुर्भिर्युक्ताः चतुर्युजः । गमकत्वात् समासः । किङ्किणीकै- विभूषितांस्तथा ॥ १९ ॥

 हयानां देशजातानां कुलजानां महौजसाम् ।
 सहस्रमेकं दश च ददामि तव सुव्रत ! ॥ २० ॥

 देशः-बाह्लीकादिः । कुलं-उच्चैश्रवआदेः ॥ २० ॥

 नानावर्णविभक्तानां वयस्स्थानां तथैव च ।
 ददाम्येकां गवां कोटिं शबला दीयतां मम ॥ २१ ॥

 वयस्स्थाः-तरुण्यः–"वयस्स्थस्तरुणो युवा" ॥ २१ ॥


  1. श्वेताश्वानां चतुर्भिः युजः ।