पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
384
[बालकाण्डः
कामधेनुप्राप्तयुद्यमः

 शतसहस्रेणेति । निष्क्रयभूतेनेति शेषः । धर्मतो ममैषा; योग्येति शेषः ॥ १० ॥

 एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः ।
 विश्वामित्रेण धर्मात्मा, प्रत्युवाच महीपतिम् ॥ ११ ॥
 नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ।
 राजन् ! दास्यामि शबलां राशिभी रजतस्य वा ॥ १२ ॥
 [१]न परित्यागमर्हेयं मत्सकाशमंरिदम !
 शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा ॥ १३ ॥

 कुतः परित्यागानर्हेत्यतः-शाश्वातीत्यादि । आत्मवतः-राज-योगवतो यथा विद्यादिजा कीर्तिः शाश्वती-नित्या, एवं मह्यं ब्रह्मदत्ता शबला शाश्वती-मन्त्रिनित्यसम्बद्धा ॥ १३ ॥

 अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च ।
 आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च ॥ १४ ॥

 कथमस्यामेवं अत्यादर इत्यतः-अस्यां हव्यमित्यादि । प्राण- यात्रा-जीवनं आयत्तं-अधीनम् ।[२]अस्य सर्वत्रानुकर्षः । बलिः-बलिहरणं । होमः-वैश्वदेवादिः ॥ १४ ॥

 स्वाहाकारवपद्कारौ विद्याश्च विविधास्तथा ।
 आयत्तमत्र, राजर्षे ! सर्वमेतन्न संशयः ॥ १५ ॥

 विविधा विद्याश्चास्यामायत्ताः । एतत्पयआदिप्रदानेन चित्त- शुद्धेः, प्राणतृप्तेर्देहबलादेव साध्यत्वात्तदेकमूलशब्दविद्विद्यासिद्धि श्चास्यामायत्तैव ॥ १५ ॥


  1. परित्यगं प्रत्यर्हा, यद्वा परित्यागं प्राप्तुमर्हा न इत्यर्थः ।
  2. अस्य-आयत्तपदस्य