पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३ सर्गः]
383
तां कामधेनुं शबलां ऐच्छत् गाधिसुतस्तदा

 नानास्वादुरसानां च [१][२]षाडवानां तथैव च ।
 [३]भोजनानि सुपूर्णानि गौडानि च सहस्रशः ॥ ४ ॥

 षाडवानामिति । षण्णां रसानां विकाराः, शैषिकोडण्, गुण- प्रधानस्फुरत्षड्रसको भक्ष्यविशेषः । औत्तरीत्याऽऽहुः । भोजनानि-भोजन-पात्राणि । गौडानि-राजतानि, 'प्राणिरजतादिभ्योऽञ्' 'रजतं गुडः' ॥

 सर्वमासीत् सुसन्तुष्टं हृष्टपुष्टजनायुतम् ।
 विश्वामित्रबलं राम ! वसिष्ठेनातितर्पितम् ॥ ५ ॥

 हृष्टपुष्टजनैरासमन्ताद्युतं-आयुतम् ॥ ५ ॥

 विश्वामित्रोऽपि राजर्षिः हृष्टः पुष्टस्तदाऽभवत् ।
 सान्तःपुरवरो राजा सब्रह्माणपुरोहितः ॥ ६ ॥

 हर्षः-अन्तश्चित्तसन्तोषः । पुष्टिः-देहपुष्टिः ॥ ६ ॥

 सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा ।
 युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् ॥ ७ ॥

 अमात्यः-कर्मसचिवः । मन्त्री-मन्त्रसचिवः ॥ ७ ॥

 पूजितोऽहं त्वया ब्रह्मन् ! पूजार्हेण सुसत्कृतः ।
 श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ! ॥ ८ ॥

 पूजार्हेण-अस्मदादिभिरिति शेषः ॥ ८ ॥

 गवां शतसहस्रेण दीयतां शबला मम ॥ ९ ॥
 रत्नं हि भगवन्नेतत् रत्नहारी च पार्थिवः ।
 तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज ! ॥ १० ॥


  1. षाडवाः भक्ष्यविशेषाः–तेषां पूर्णानि-तैः पूर्णानीत्यर्थः ; 'पूरणगुण' इत्यादिना तृतीयार्थे षष्ठी। गौडानि–गुडविकाराः । अत्रापि आसन्निति शेषः-गो.
  2. षड्रसानां, खाण्डवानां-ङ. ज.
  3. भागजनानि-ङ.