पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
382
[बालकाण्डः
कामधेनुप्राप्त्युद्यमः

 रसेन–रसायनभेदेन । लेह्यं-जिह्वाग्राह्यक्षौद्रादि । चोष्यं-अधरपुटग्राह्यमरीचिरसादिः । लेह्यचोष्यमिति । 'सर्वो द्वन्द्वो विभाषा' इत्येकत्वम् । एवमुक्तरूपाणां निचयं-राशि कृत्स्नं सृजस्व । अगार-(२३ १/२) मानः सर्गः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्विपञ्चाशः सर्गः

अथ त्रिपञ्चाशः सर्गः
[ कामधेनुप्राप्त्युद्यमः ]

 एवमुक्ता वसिष्ठेन शबला, शत्रुसूदन !
 विदधे कामधुक् कामान् यस्य यस्य यथेप्सितम् ॥ १ ॥

 अथ यथानियोगानुष्ठानोपदेशः-एवमित्यादि । यस्य यस्य यथा यथा ईप्सितं तथा तथा तस्य तस्य सर्वान् कामान् विदधे ॥ १ ॥

 इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान् ।
 पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा ॥ २ ॥

 अस्यैव प्रपञ्चः-इक्षूनित्यादि । इक्षून्-तद्विकारान्, मधून्- 'मकरन्दस्य मद्यस्य माक्षिकस्य च वाचकः' ; अर्धर्चादिषु दृष्टत्वात् पुंनपुंसकयोः मधुः-क्षौद्रमैरेयाख्यानासवविशेषान् । 'मैरेयमासवोधात्रीघातकीगुडवारिभिः' । कृतमिति शेषः । भक्ष्यान्-अपूप-विशेषान् ॥ २ ॥

 उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः ।
 मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च ॥ ३ ॥

 पर्वतोपमा इति। आसन्निति शेषः । मृष्टान्नानि-पायसभेदाः ॥