पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२ सर्गः]
381
तस्यातिथ्यं मुनिश्चक्रे कामधेन्वाः सहायतः

 बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह ।
 यथा प्रियं भगवतस्तथाऽस्तु मुनिसत्तम ! ॥ १९ ॥

 बाढमित्यस्यैव विवरणम्-यथा प्रियमित्यादि ॥ १९ ॥

 एवमुक्तो महातेजा वसिष्ठो जपतां वरः ।
 आजुहाव ततः प्रीतः कल्मापीं धूतकल्मषाम् ॥ २० ॥

 एवमुक्त इत्यादि । विश्वामित्रेणेति शेषः । कल्माषीं-विचित्र- वर्णां, शबलामिति शेषः, 'वर्णादनुदात्तात्तोपधात्तो नः' इत्यतो ङीष् ॥

 एह्येहि शबले ! क्षिप्रं शृणु चापि वचो मम ।
 सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम् ॥
 भोजनेन महार्हेण सत्कारं, संविधत्स्व मे ॥ २१ ॥

 शबलेति संज्ञात्वतो वर्णार्थित्वाभावान्नं ङीष् । महार्हेण भोजनेन सत्कारं कर्तुं व्यवसित इति योजना । तदर्थं संविधत्स्व-स्वतस्त- दुपयोगिवस्तुजातं संपादय ॥ २१ ॥

 यस्य यस्य यथाकामं षड्रमेष्वभिपूजितम् ।
 तत्सर्वं कामधुक् ! क्षिप्रमभिवर्ष कृते मम ॥ २२ ॥

 मधुरादिषड्रसेषु यस्य यस्य यदभिपूजितं-अभीष्टं तत्सर्वं यथाकामं–तत्तत्प्रीत्यनतिक्रमेण मम कृते-मत्प्रयोजनार्थमिति मदर्थकृते इति च तादर्थ्ये निपातद्वयमीरितं, अभिवर्ष ॥ २२ ॥

 रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् ।
 अन्नानां निचयं सर्वं सृजस्व शबले ! त्वर ॥ २३ ॥

इत्यार्षे श्रीमद्रामारणे बालकाण्डे द्विपञ्चाशः सर्गः