ततो वसिष्ठो भगवान् कथाऽन्ते रघुनन्दन !
विश्वामित्रमिदं वाक्यं उवाच [१]प्रहसन्निव ॥ १२ ॥
प्रहसऽन्निवेति ! प्रसन्नमुख इति शेषः ॥ १२ ॥
आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल !
तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे ॥ १३ ॥
सत्कियां हि भवानेतां प्रतीच्छतु मयोद्यताम् ।
राजा त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः ॥ १४ ॥
प्रतीच्छतु–अङ्गीकरोतु ॥ १४ ॥
पूजावाक्येनेति । आतिथ्यं करिष्यामीत्येवं पूजाबाक्येनैव मम पूजनं कृतमिति राजाऽब्रवीत् ॥ १५ ॥
फलमूलेन भगवन् ! विद्यते यत्तवाश्रमे ।
पाद्येनाचमनीयेन भगवद्दर्शनेन च ॥ १६ ॥
सर्वथा च महाप्राज्ञ ! पूजार्हेण सुपूजितः ।
गमिष्यामि, नमस्तेऽस्तु, मैत्रेणेक्षस्व चक्षुषा ॥ १७ ॥
पूजार्हेण-त्वयेति शेषः । मैत्रेण-मत्वर्थीयोऽजन्तः ॥ १७ ॥
एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि ।
न्यमन्त्रयत धर्मात्मा पुनःपुनरुदारधीः ॥ १८ ॥
निमन्त्रणं—भोजनाय प्रार्थनम् ॥ १८ ॥