पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२ सर्गः]
379
परिक्रमन् स तु प्राप वसिष्ठाश्रममुत्तमम्

 विपुष्पफलवन्तो वनस्पतयः । इदं उपलक्षणं वानस्पत्यानां पुष्पपूर्वफलवतामाम्रादीनाम् । तद्विषयेऽपि कुशलं पर्यपृच्छत् । सर्व- त्रेति । विश्वामित्रपृष्टसर्वविषय इत्यर्थः ॥ ५ ॥

 सुखोपविष्टं राजानं विश्वामित्रं महातपाः ।
 पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः ॥ ६॥
 कच्चित्ते कुशलं राजन् ! कच्चिद्धर्मेण रञ्जयन् ।
 प्रजाः पालयसे वीर ! राजवृत्तेन धार्मिक ॥ ७ ॥

 राजवृत्तेनेति । "न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा । सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम् ॥" इति स्मृतेनोपलक्षितस्सन् ॥

 कच्चित्ते [१]सम्भृता भृत्याः कच्चित्तिष्ठन्ति शासने ।
 कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन ! ॥ ८ ॥
 कच्चिद्धर्मेषु कोशेषु मित्रेषु च परंतप !
 कुशलं ते नरव्याघ्र ! पुत्रपौत्रे तवानघ ॥ ९ ॥

 कोशः–नानाविधधनधान्यार्थनिचयः । पुत्रपौत्र इति । गवाश्व- प्रभृतित्वादेकत्वम् ॥ ९ ॥

 सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् ।
 विश्वामित्रो महातेजा वसिष्ठं[२]विनयान्वितः ॥ १० ॥
 कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाः शुभाः ।
 मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् ॥ ११ ॥

 तौ उक्तविशेषणकौ विश्वामित्रवसिष्ठौ उभौ प्रीयेतामिति । अडभाव आर्षः ॥ ११ ॥


  1. सुभृताः-ङ.
  2. विनयान्वितम्-ङ- ज.