अथ विश्वामित्रास्त्राकुलीकृतस्वबलस्य च पुनः सर्गत उपोद्वलनेन वैश्वामित्रसर्वबलनाशः-ततस्तानित्यादि । कामधुगिति सम्बुद्धिः ॥
म्लेच्छकिरातयवनाः जातिविशेषाः ॥ ३ ॥
तैस्तैर्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात् ।
सपदातिगजं साश्वं सरथं रघुनन्दन ! ॥ ४ ॥
दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना ।
विश्वामित्रसुतानां तु शतं नानाविधायुधम् ॥ ५ ॥
अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जपतां वरम् ।
हुंकारेणैव तान् सर्वान् ददाह भगवान् ऋषिः ॥ ६ ॥
विश्वामित्रसुतानां शतं वसिष्ठमभ्यधावदिति । अयमेव किल धेनोर्बलम्, अतोऽयमेव संहर्तव्य इत्याशयेनेति शेषः । हुंकारेण निर्ददाहेत्यस्य बीजं-जपतां वरमिति । सघोरबीजदेवीजप एव तद्वलमिति सूचितम् ॥ ६ ॥
ते साश्वरथपादाता वसिष्ठेन महात्मना ।
भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा ॥ ७ ॥
मुहूर्तेन विश्वामित्रसुता भस्मीकृता इति । मासेनानुवाकोऽधीत इतिवदपवर्गे तृतीया ॥ ७ ॥