इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव !
गौतमस्य प्रभावेन [१]तपसश्च महात्मनः ॥ १० ॥
तपसः प्रभावेणावृषणः पितृदेवतानुप्रहेण सवृषणश्चेत्यर्थः ॥१०॥
तदागच्छ महातेजः ! आश्रमं पुण्यकर्मणः ।
तारयैनां महाभागामहल्यां देवरूपिणीम् ॥ ११ ॥
हे महातेजः राम ! पुण्यकर्मणः-गौतमस्य तत्-आश्रमपदं आगच्छ । ननु भगवन् ! ताटकावत् शापात् घोररूपाहल्यया अवष्टब्धमाश्रमं कथं गच्छेयमित्य[२]त्रोक्तम्-अहल्यां देवरूपिणीमिति । शापस्य त्वेतदाश्रमावकाशगमनावधिकत्वतोऽद्य मुक्तशापत्वतो देवरूपिणीं–देवगणतुल्यरूपिणीं महाभागामेनां -स्वभर्तृप्रतिपत्तिफलकं तदीयमातिथ्यं गृहत्विा एनां तारय-भर्तृप्रापणेनानुगृहाण ॥ ११ ॥
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ।
विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत् ॥ १२ ॥
ददर्श च महाभागां तपसा द्योतितप्रभाम् ।
लोकैरपि समागम्य दुर्निरीक्षां सुरासुरैः ॥ १३ ॥
अथाश्रमं प्रविश्य यथा विश्वामित्रोक्तं तथैव तां पश्यति स्मेत्युच्यते-ददर्श चेत्यादि । मुक्तप्रतिबन्धेन तपसा सहजभूतेन द्योतिता-प्रकाशिता विद्युदादेरिव दुर्निरीक्षा प्रभा यस्यास्सा तथा । अत एव समागम्य–तस्यास्समीपमागत्य सुरासुरैरपि लोकैर्दुर्निरीक्षाम् ॥ १३ ॥
प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव ।
[३]सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव ॥ १४ ॥
मध्येंऽभसो दुराधर्षां दीप्तां सूर्यप्रभामिव ।