पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
366
[बालकाण्डः
अहल्याशापनिवृत्तिः

 [१]अफलस्तु कृतो मेषः परां [२]पुष्टिं प्रदास्यति ।
 भवतां हर्षणार्थे च ये च दास्यन्ति मानवाः ।
 [३]अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम् ॥ ७॥

 कथं तर्हि अफलस्तु कृतो मेषः परां पुष्टिं प्रदास्यति ? युष्मभ्यं- युष्मत्प्रीत्यर्थं ये च मानवाः-अफलं मेषं हविष्ट्वेन दास्यन्ति तेषामक्षयं-स्वर्गादिफलं च दास्यथेति वचनमुच्यते । युष्मभ्यं यदा मेषो हविः सम्पद्यते तदा अफलः-फलांशव्यतिरिक्त एव कृतः-हविष्ट्वेन कृतो युष्मत्प्रीतयेऽस्तु, तदीयवृषणस्यैन्द्रत्वेन युष्मत्पशव्यत्वात् त्यक्तवृषणकमेव युष्मत्प्रीतयेऽस्तु ॥ ७ ॥

 अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः ।
 उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन् ॥ ८ ॥

 अग्नेस्तु वचनं श्रुत्वेति । अग्निमुखेन कृतं देवनियोगमित्यर्थः । समागताः-पितृपितामहप्रपितामहन्निप्रकारस्वगणैस्सम्भूयागताः तथा, तथैव किल तेषामाराधनम् ॥ ८ ॥

 तदाप्रभृति काकुत्स्थ ! पितृदेवाः समागताः ।
 [४]अफलान् भुञ्जते मेषान्, फलैस्तेषामयोजयन् ॥ ९ ॥

 अफलान्-फलांशव्यतिरिक्तान् ॥ ९ ॥


  1. नन्विदमयुक्तभ्, न हि मेषा अवृषणा दृश्यन्त इति चेन्न-अफलः-वृषणभिन्नो यो मेषावयवः भवद्धविष्ठ्वेन कल्पितः सः भवतां परां तुष्टिं दास्यतीत्यन्वयात्-ति ॥
  2. तुष्टिं-ङ.
  3. इदमर्धं कुत्रचिन्नास्ति-ङ.
  4. अपलान् मेषान् भुञ्जते । अथापि तेषां-सवृषणानां फलैः-सवृषमेषदानफलैरयोजयन् । दातृनिति शेषः-गो. शि. अफलान्-षण्ढान् तदंशरहितान् वा । यतः तेषां फलैः-फलाभ्यामिन्द्रमयोजयन्-ति.