पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९ सर्गः]
365
अहल्याशक्रयोश्शापप्राप्तिं चोवाच कौशिकः

 विफलोऽस्मि कृतस्तेन क्रोधात्, सा च निराकृता ।
 शापमोक्षेण महता तपोऽस्यापहृतं मया ॥ ३ ॥

 क्रोधविनश्यत्तपसा तेन ऋषिणाऽहं विफलः कृतोऽस्मि । सा च अहल्या दुष्टचारिणीति निराकृता परित्यक्ता; प्रागुक्तरूपशापपूर्वं । एवं महता उभयत्र शापमोक्षेणास्य तपो मयाऽपहृतम् ॥ ३ ॥

 तस्मात् सुरवराः सर्वे सर्षिसङ्घाः सचारणाः !
 सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ ॥ ४ ॥

 यस्मात् एवं, तस्मात् सर्वे यूयं सुरसाह्यकरं मां सफलं कर्तुमर्हथ ॥

 शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमा: ।
 [१]पितृदेवानुपत्याहुः सर्वे सह मरुद्गणैः ॥ ५ ॥

 पितृदेवाः-अग्निकव्यवाहनादयः, तानुपेत्य हव्यवाहनाग्निमुखेन आहुः, 'अग्नेस्तु वचनं श्रुत्वा' (श्लो. १०) इति वक्ष्यमाणात्वादिहायं विशेषः ॥ ५ ॥

 अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः ।
 मेषस्य वृषणौ गृह्य [२]शक्रस्याशु प्रयच्छत ॥ ६ ॥

 अयं मेष इति । योऽयं भवतां हविष्ट्वेन वाहनत्वेन च कल्पितः अयमित्यर्थः । गृह्य-गृहीत्वा । मेषस्य वृषणौ अपहृत्य शक्रस्याशु प्रयच्छत । शक्रस्य वृषणौ मेषस्य च प्रयच्छतेति शेषः । न हि मेषानवृषणान् पश्यामः ॥ ६॥


  1. एतदनन्तरं-पुराऽविचार्य मोहेन ऋषिपत्नीं शतक्रतुः । धर्षयित्वा मुनेश्शापात्तत्रैव विफलः कृतः । इदानीं कुप्यते देवान् देवराजः पुरन्दरः ॥ इत्यधिकं-ङ.
  2. शक्रायाशु-ङ.