बन्धप्रसिद्धिवत्कल्पभेदे शिलाशापादिप्रसिद्धिरिति । वाल्मीक्यनुभवगोचररामावतारे शिलाहल्यामोक्षणं रामचरिते नास्तीत्येव । [१]कश्चित्तु पुराणश्लोकं 'एवमुक्त्वा महातेजास्संहारं तु तदाऽकरोत् । यदा चैतद्वनं घोरम्' इत्यादि सार्धश्लोकद्वयं गौतमेन शापमोक्षप्रतिपादकं[२]प्राक्षिपत् । व्याकरोच्च शिलाकथामपि । व्याकरोतु । किं नः ? राग (३२) मानः ॥ ३२ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टचत्वारिंशः सर्गः
अथ एकोनपञ्चाशः सर्गः
[अहल्याशापनिवृत्तिः]
अथ कथं शतक्रतोर्धर्मबन्धोः अधर्मप्रवृत्तिरिति शङ्कापरिहाराद्युपदेशपूर्वं प्रकृताश्रमप्रवेशादिव्यापारोपदेशः । विफलस्त्वित्यादि । त्रस्तवदन इति । त्रासेन तत्कार्यं दैन्यं लक्ष्यते । दीनवदन इति यावत् ॥१॥
कुर्वता तपसो विघ्नं गौतमस्य महात्मनः ।
क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ॥ २ ॥
गौतमस्य तपसो विघ्नं कुर्वतेति ।अस्मदादिदेवपदापहारहेतुत्वात्तत्तपसः विघ्नस्य स्वात्मरक्षार्थमवश्य कर्तव्यत्वादिति शेषः । एवं च क्रोधमुत्पाद्य तपोनाशरूपं इदं सुरकार्यमेव कृतम् ॥ २ ॥
- ↑ महेश्वरतीर्थः । तथा हि-'घोरमित्यनेन' इदं वनं मुनिवर्ज भवत्विति गौतमेन शप्तमित्यवगभ्यते-'स्वं वपुर्धारयिष्यति' इत्यनेन पद्मपुराणोक्तपाषाणावस्था सूच्यते-तथा च पाद्मे-'सा ततस्तस्य रामस्य पादस्पर्शान्महात्मनः । अभूत् सुरूपा वनिता समाक्रान्ता महाशिला' इति ॥
- ↑ अयं भागः तिलकेऽनूदितः ॥
- ↑ धसः-ङ.
- ↑ आर्तवदनः-ङ.